________________
२५२
मृच्छकटिके चारुदत्तः-आभरणान्याभरणानीति। न जाने, किंत्वसद्हादानीतानीति जाने ।
शकारः-उज्जाणं पवेशिअ पढमं मालेशि । कवडकावङिआए शंपदं णिगृहेशि । (क) अधिकरणिकः-आर्यचारुदत्त, सत्यमभिधीयताम् ।
इदानीं सुकुमारेऽस्मिन्निःशकं कर्कशाः कशाः। तव गात्रे पतिष्यन्ति सहास्माकं मनोरथैः ॥ ३६ ॥ चारुदत्त:
अपापानां कुले जाते मयि पापं न विद्यते ।
यदि संभाव्यते पापमपापेन च किं मया ॥ ३७॥ (स्वगतम् ।) न च मे वसन्तसेनाविरहितस्य जीवितेन कृत्यम् । (प्रकाशम् ।) भोः, किं बहुना।
मया किल नृशंसेन लोकद्वयमजानता । स्त्रीरत्नं च विशेषेण शेषमेषोऽभिधास्यति ॥ ३८ ॥ शकारः-वावादिदा । अले, तुमं पि भण, मए वावादि
देत्ति । (ख)
चारुदत्तः-त्वयैवोक्तम् ।
शकारः-शुणेध शुणेध भट्टालका, एदेण मालिदा । एदेण जेव शंशए छिण्णे । एदश्श दलिद्दचालुदत्तश्श शालीले दण्डे धालीअदु । (ग)
(क) उद्यानं प्रवेश्य प्रथमं मारयसि । कपटकापटिकतया सांप्रतं निगृहसि । (ख) व्यापादिता । अरे, त्वमपि भण, मया व्यापादितेति ।
(ग) शृणुत शृणुत भट्टारकाः, एतेन मारिता । एतेनैव संशयश्छिन्नः। एतस्य दरिद्रचारुदत्तस्य शारीरो दण्डो धार्यताम् । पापकम् । सत्यमिति द्वे [अप्यक्षरे इति स्वरूपोक्तिः । 'न भवति पापस्य निमित्तमिति यस्मात्' इति प्राचीनटीका । अलीयेण(?) अलीकं कर्तृ । सत्यापेक्षया बह्वक्षरमपीत्यर्थः । सत्यं पूर्वोक्तस्वरूपत्वाव्यक्षरमपि कर्मभूतम् । मा निगृहति मा संवृणोति ॥ ३५ ॥ अतिकापटिकतया निगृहसि ॥ इदानीमिति । कशा अश्वताडिनी ॥ ३६ ॥ अपापानामिति ॥ ३७ ॥ मयेति । स्त्रीरेव