________________
नवमोऽङ्कः। ___ २५१ अधिकरणिकः-पश्य श्रेष्ठिन् , वस्त्वन्तराणि सदृशानि भवन्ति नूनं
रूपस्य भूषणगुणस्य च कृत्रिमस्य । दृष्ट्वा क्रियामनुकरोति हि शिल्पिवर्गः
सादृश्यमेव कृतहस्ततया च दृष्टम् ॥ ३४ ॥ श्रेष्ठिकायस्थौ-अजचारुदत्तस्स केरकाई एदाई । (क) चारुदत्तः-न खलु न खलु । श्रेष्ठिकायस्थौ-ता कस्स । (ख) चारुदत्तः-इहात्रभवत्या दुहितुः । श्रेष्ठिकायस्थौ-कधं एदाइं ताए विओअं गदाई । (ग) चारुदत्तः-एवं गतानि । आं, इदम् ।
श्रेष्ठिकायस्थौ-अजचारुदत्त, एत्थ सच्चं वत्तव्यम् । पेक्ख पेक्ख ।
सच्चेण सुहं क्खु लब्भइ
सच्चालावे ण होइ पावम् । सच्चं त्ति दुवेवि अक्खरा
__ मा सच्चं अलिएण गूहेहि ॥ ३५ ॥ (घ) (क) आर्यचारुदत्तीयान्येतानि । (ख) तदा कस्य । (ग) कथमेतानि तस्या वियोगं गतानि । (घ) आर्यचारुदत्त, अत्र सत्यं वक्तव्यम् । पश्य पश्य ।
सत्येन सुखं खलु लभ्यते
सत्यालापे न भवति पातकम् । सत्यमिति द्वे अप्यक्षरे
मा सत्यमलीकेन गृहय ॥ ओबन्धेइ अवबध्नाति ॥ वस्त्वन्तराणीति । कृतहस्ततया शिल्पकौशलेन ॥ ३४ ॥ एवं आं इदं एवमिदं स्मर्यते ॥ सचेणेत्यादि । वैतालीयम् । सत्येन सुखं खलु लभ्यते।सत्यालापे। सत्यमालापयतीति क्विपि सत्यालापः । तत्र न भवति