________________
२५०
मृच्छकटिके
चारुदत्तः-वयस्य,
दुर्बलं नृपतेश्चक्षुर्नैतत्तत्त्वं निरीक्षते । केवलं वदतो दैन्यमश्लाध्यं मरणं भवेत् ॥ ३२ ॥ अधिकरणिक:-कष्टं भोः, कष्टम् । __ अङ्गारकविरुद्धस्य प्रक्षीणस्य बृहस्पतेः ।
ग्रहोऽयमपरः पार्श्वे धूमकेतुरिवोत्थितः ॥ ३३ ॥ श्रेष्ठिकायस्थौ-(विलोक्य वसन्तसेनामातरमुद्दिश्य ।) अवहिदा दाव अजा एवं सुवण्णभण्डअं अवलोएदु, सो जेव एसो ण वेत्ति। (क)
वृद्धा—(अवलोक्य ।) सरिसो एसो, ण उण सो । (ख)
शकारः-आं बुड्कुट्टणि, अक्खीहिं मन्तिदं वाआए मूकिदम् । (ग) वृद्धा-हदास, अवेहि । (घ) श्रेष्ठिकायस्थौ-अप्पमत्तं कधेहि, सो जेव एसो ण वेत्ति । (ङ) वृद्धा-अज, सिप्पिकुसलदाए ओबन्धेदि दिट्टिम् । ण उण सो। (च)
अधिकरणिक:-भद्रे, अपि जानास्येतान्याभरणानि । वृद्धा-णं भणामि, ण हु ण हु अणभिजाणिदो । अह वा कदा वि सिप्पिणा घडिदो भवे । (छ)
(क) अवहिता तावदार्येदं सुवर्णभाण्डमवलोकयतु, तदेवेदं न वेति । (ख) सदृशमेतत् , न पुनस्तत् । (ग) आं वृद्धकुट्टनि, अक्षिभ्यां मन्त्रितं वाचा मूकितम् । (घ) हताश, अपेहि । (ङ) अप्रमत्तं कथय, तदेवैतन्न वेति । (च) आर्य, शिल्पिकुशलतयावबध्नाति दृष्टिम् । न पुनस्तत् । (छ) ननु भणामि, न खलु न खल्वनभिज्ञातः . । अथवा कदापि शिल्पिना घटितो भवेत् । शिले शिरः ॥ अयमिति ॥३१॥ दुर्बलमिति ॥३२॥ अङ्गारकेति ॥३३॥