SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ नवमोऽङ्कः । २४९ शकारः - ( सक्रोधम् ।) शुणन्तु शुणन्तु अज्जमिश्शा | चालुदत्तके शह मम विवादे ववहाले वा । ता कीश एशे काकपदशीशमश्तका मए शिले शदखण्डे कलेदि । मा दाव । ले दाशीएपुत्ता दुट्टबडुका । (क) (विदूषको दण्डकाष्ठमुद्यम्य पूर्वोक्तं पठति । शकारः सक्रोधमुत्थाय ताडयति । विदूषकः प्रतीपं ताडयति । अन्योन्यं ताडयतः । विदूषकस्य कक्षदेशादाभरणानि पतन्ति ।) शकारः – (तानि गृहीत्वा दृष्ट्वा ससाध्वसम् ।) पेक्खन्तु पेक्खन्तु अज्जा । एदे क्खु ताए तवश्शिणीए केलका अलंकाला । (चारुदत्तमुद्दिश्य ।) इमश्श अत्थकल्लवत्तश्श कालणादो एशा मालिदा वावादिदा अ । (ख) ( अधिकृताः सर्वेऽधोमुखाः स्थिताः । ) चारुदत्तः — (जनान्तिकम् ।) अयमेवंविधे काले दृष्टो भूषणविस्तरः । अस्माकं भाग्यवैषम्यात्पतितः पातयिष्यति ॥ ३१ ॥ विदूषकः - भो, कीस भूदत्थं ण णिवेदीअदि । (ग) कृतजनदोषभण्ड बहुसुवर्णमण्डितमर्कटक, भण भण ममाग्रतः, य इदानीं मम प्रियवयस्यः कुसुमितां माधवीलतामप्याकृष्य कुसुमावचयं न करोति कदाचिदाकृष्टतया पलवच्छेदो भवतीति, स कथमीदृशमकार्यमुभयलोकविरुद्धं करोति । तिष्ठ रे कुट्टिनीपुत्र, तिष्ठ । यावदेतेन तव हृदयकुटिलेन दण्डकाष्ठेन मस्तकं ते शतखण्डं करोमि । (क) शृण्वन्तु शृण्वन्त्वार्यमिश्राः । चारुदत्तेन सह मम विवादो व्यवहारो वा । तत्किमर्थमेष काकपदशीर्षमस्तको मम शिरः शतखण्डं करोति । मा तावत् । रे दास्याः पुत्र दुष्टबटुक । 1 1 (ख) पश्यन्तु पश्यन्त्वार्याः । एते खलु तस्यास्तपस्विन्या अलंकाराः । अस्यार्थकल्यवर्तस्य कारणादेषा मारिता व्यापादिता च । (ग) भोः, किमर्थं भूतार्थो न निवेद्यते । पेति लोकोक्तिः । कृतजनदोषश्चासौ भण्डश्चेति । विशेषणसमासः ॥ मए मम ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy