________________
२४०
मृच्छकटिके
शकारः
लज्जाए भीलुदाए वा
चालित्तं अलिए णिगूहिदुम् । शरं मालिअ अत्थकालणा
दाणिं गूहदि ण तं हि भश्टके ॥ १७ ॥ (क) श्रेष्ठिकायस्थौ-अजचारुदत्त, भणाहि । अलं लज्जाए। ववहारो क्खु एसो । (ख)
चारुदत्तः-(सलज्जम् ।) भो अधिकृताः, मया कथमीदृशं वक्तव्यम्, यथा गणिका मम मित्रमिति । अथवा यौवनमत्रापराध्यति, न चारित्र्यम् । अधिकरणिकः--
व्यवहारः सविघ्नोऽयं त्यज लज्जां हृदि स्थिताम् ।
ब्रूहि सत्यमलं धैर्य छलमत्र न गृह्यते ॥ १८ ॥ अलं लज्जया । व्यवहारस्त्वां पृच्छति ।
चारुदत्तः-अधिकृत, केन सह मम व्यवहारः । शकारः-(साटोपम् ।) अले, मए शह ववहाले । (ग) चारुदत्तः-त्वया सह मम व्यवहारः सुदुःसहः । (क) लज्जया भीरुतया वा
चारित्रमलीकं निगृहितुम् । स्वयं मारयित्वार्थकारणा
दिदानी गृहति न तद्धि भट्टकः ॥ (ख) आर्यचारुदत्त, भण । अलं लजया । व्यवहारः खल्वेषः ।
(ग) अरे, मया सह व्यवहारः । प्रीतिः स्नेहमात्रम् ॥ लजाए इत्यादि । वैतालीयम् । एइं इति सबिन्दुवि. कारो लघुः छन्दोनुरोधात् । लज्जया भीरुकतया च लक्षितः । त्वमित्यर्थात् । किमर्थमलीके स्त्रीवधादौ दरिद्रमावरणं निगृही(गूहि)तुम् (१) । कुत एवमित्याह-खय मारयित्वार्थनिमित्तमिदानीं गृह्णाति न नष्टके । अपि तु नष्ट एव । 'नष्टके' इत्यपि पाठः (१) ॥ १७ ॥ व्यवहार इति । छलपरिहारार्थ चिरं