________________
नवमोऽङ्कः। २३९ चारुदत्तः-भोः, अधिकृतेभ्यः स्वस्ति । हंहो नियुक्ताः, अपि कुशलं भवताम् ।
अधिकरणिकः-(ससंभ्रमम् ।) खागतमार्यस्य । भद्र शोधनक, आर्यस्यासनमुपनय ।
शोधनकः—(आसनमुपनीय ।) एदं आसनम् । एत्थ उवविसदु अजो । (क)
___ (चारुदत्त उपविशति ।) शकारः-(सक्रोधम् ।) आगदेशि ले इश्थिआघादआ, आगदेशि । अहो णाए ववहाले, अहो धम्मे ववहाले, जं एदाह । इश्थिआघादकाह आशणे दीअदि । (सगर्वम् ।) भोदु । णं दीअदु । (ख) ___ अधिकरणिकः-आर्य चारुदत्त, अस्ति भवतोऽस्या आर्याया दुहिता सह प्रसक्तिः प्रणयः प्रीतिर्वा । चारुदत्तः–कस्याः । अधिकरणिकः-अस्याः । (इति वसन्तसेनामातरं दर्शयति ।) चारुदत्तः—(उत्थाय ।) आर्ये, अभिवादये ।
वृद्धा-जाद, चिरं मे जीव । (खगतम् ।) अअं सो चारुदत्तो । सुणिक्खित्तं क्खु दारिआए जोव्वणम् । (ग) अधिकरणिका–आर्य, गणिका तव मित्रम् ।
— (चारुदत्तो लज्जां नाटयति ।) (क) इदमासनम् । अत्रोपविशत्वार्यः । (ख) आगतोऽसि रे स्त्रीघातक, आगतोऽसि । अहो न्याय्यो व्यवहारः, अहो धो व्यवहारः, यदेतस्मै स्त्रीघातकायासनं दीयते । भवतु । ननु दीयताम् ।
(ग) जात, चिरं मे जीव । अयं स चारुदत्तः । सुनिक्षिप्तं खलु दारिकया यौवनम् । घोणा उन्नता यत्र, घोणया वा उन्नतमुत्कृष्टम् । अपाङ्गो विशालो यत्र । एतेन नेत्रविशालत्वमुक्तम् ॥ १६ ॥ प्रसक(तिः) प्रणयो रागानुबन्धः प्रीतिति ।