SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ नवमोऽङ्कः । शकारः - अले इश्थिआघादआ, तं तादिशि लअणशदभूशणिभं वशन्तशेणिअं मालिअ, शंपदं कवडकावडिके भविअ णिगूहेशि । (क) चारुदत्तः– असंबद्धः खल्वसि । अधिकरणिकः – आर्यचारुदत्त, अलमनेन । ब्रूहि सत्यम् । - अपि गणिका तव मित्रम् | चारुदत्तः — एवमेव । अधिकरणिकः - आर्य, वसन्तसेना व । चारुदत्तः - गृहं गता । -- श्रेष्ठकायस्थौ - कथं गदा, कदा गदा, गच्छन्ती वा केण २४१ अणुगदा । (ख) चारुदत्तः: - ( खगतम् ) किं प्रच्छन्नं गतेति ब्रवीमि । श्रेष्ठिकायस्थौ – अज्ज, कधेहि । (ग) चारुदत्तः गृहं गता । किमन्यद्रवीमि । शकारः –ममकेलकं पुप्फकलण्डकजिण्णुजाणं पवेशिअ अत्थणिमित्तं बाहुपाशबलक्कालेण मालिदा । अए, शंपदं वदशि घलं गदेति । (घ) चारुदत्तः - आः असंबद्धप्रलापिन्, अभ्युक्षितोऽसि सलिलैर्न बलाहकानां चाषाग्रपक्षसदृशं भृशमन्तराले । (क) अरे स्त्रीघातक, तां तादृशीं रत्नशतभूषणां वसन्तसेनां मारयित्वा, सांप्रतं कपटकापटिको भूत्वा, निगूहसि । (ख) कथं गता, कदा गता, गच्छन्ती वा केनानुगता । (ग) आर्य, कथय । (घ) मदीयं पुष्पकरण्डक जीर्णोद्यानं प्रवेश्यार्थनिमित्तं बाहुपाशबलात्कारेण मारिता । अये, सांप्रतं वदसि गृहं गतेति । समीक्ष्यत इत्याशङ्कयाह--छलमत्र नेति ॥ १८ ॥ अभ्युक्षितेति । मृ० २१
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy