SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ नवमोऽङ्कः । शोधनकः - (अन्यतः परिक्रम्य पुरो दृष्ट्वा ) एदे अधिअरणिआ आअच्छन्ति । ता जाव उवसप्पामि । (क) ( इत्युपसर्पति ।) २२७ (ततः प्रविशति श्रेष्ठिकायस्थादिपरिवृतोऽधिकरणिक: 1) अधिकरणिकः- भो भोः श्रेष्ठिकायस्थौ । श्रेष्टिकायस्थौ – आणवेदु अज्जो । (ख) अधिकरणिकः - अहो, व्यवहारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः । छन्नं कार्यमुपक्षिपन्ति पुरुषा न्यायेन दूरीकृतं स्वान्दोषान्कथयन्ति नाधिकरणे रागाभिभूताः स्वयम् । तैः पक्षापरपक्षवर्धितबलैर्दोषैर्नृपः स्पृश्यते संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ३ ॥ अपि च । छन्नं दोषमुदाहरन्ति कुपिता न्यायेन दूरीकृताः स्वान्दोषान्कथयन्ति नाधिकरणे सन्तोऽपि नष्टा ध्रुवम् । क्षणेन मुक्ताः क्षणमूर्ध्वचूडाचित्रो विचित्रोऽहं राजश्यालः ॥ अपि च । विषग्रन्थिगर्भप्रविष्टेनेव कीटकेनान्तरं मार्गमाणेन प्राप्तं मया महदन्तरम् । तत्कस्येदं कृपणचेष्टितं पातयिष्यामि । आं, स्मृतं मया । दरिद्रचारुदत्तस्येदं कृपणचेष्टितं पातयिष्यामि । अन्यच्च । दरिद्रः खलु सः । तस्य सर्वे संभाव्यते । भवतु । अधिकरणमण्डपं गत्वाग्रतो व्यवहारं लेखयिष्यामि, यथा चारुदत्तेन वसन्तसेना मोटयित्वा मारिता । तद्यावदद्धिकरणमण्डपमेव गच्छामि । एष सोऽधिकरणमण्डपः । अत्र प्रविशामि । कथम्, आसनानि दत्तानि तिष्ठन्ति । यावदागच्छन्त्यधिकरणभोजकाः, तावदेतस्मिदूर्वाचत्वरे मुहूर्तमुपविश्य प्रतिपालयिष्यामि । (क) एतेऽधिकरणिका आगच्छन्ति । तद्यावदुपसर्पामि । (ख) आज्ञापयत्वार्यः । श्यालत्वेन मयि सर्वे संभाव्यत इति भावः ॥ २ ॥ किमिणचिट्टि [कृपणचेष्टि a
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy