________________
मृच्छकटिके
२२८ ये पक्षापरपक्षदोषसहिताः पापानि संकुर्वते
संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ४ ॥ यतः । अधिकरणिकः खलु । शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधन
स्तुल्यो मित्रपरस्वकेषु चरितं दृष्ट्वैव दत्तोत्तरः । क्लीबान्पालयिता शठान्व्यथयिता धर्यो न लोभान्वितो
द्वार्भावे परतत्त्वबद्धहृदयो राज्ञश्च कोपापहः ॥ ५ ॥ श्रेष्ठिकायस्थौ-अजस्स वि णाम गुणे दोसो त्ति वुच्चदि । जइ एव्यम् , ता चन्दालोए वि अन्धआरो त्ति वुच्चदि । (क) __ अधिकरणिकः-भद्र शोधनक, अधिकरणमण्डपस्य मार्गमादेशय । शोधनकः-एदु एदु अधिअरणभोइओ, एदु । (ख)
(इति परिकामन्ति ।) शोधनकः-एदं अधिअरणमण्डवम् । ता पविसन्तु अधिअरपभोइआ । (ग)
(सर्वे च प्रविशन्ति ।) अधिकरणिका-भद्रशोधनक, बहिनिष्क्रम्य ज्ञायताम्-'कः कः कार्यार्थी' इति ।
शोधनकः-जं अजो आणवेदि । (इति निष्कम्य ।) अज्जा, अधिअरणिआ भणन्ति–'को को इध कजत्थी' त्ति । (घ)
(क) आर्यस्यापि नाम गुणे दोष इत्युच्यते । यद्येवम् , तदा चन्द्रालोकेऽप्यन्धकार इत्युच्यते ।
(ख) एत्वत्वधिकरणभोजक, एतु । (ग) अयमधिकरणमण्डपः, तत्प्रविशन्त्वधिकरणभोजकाः ।
(घ) यदार्य आज्ञापयति । आर्याः, अधिकरणिका भणन्ति–'कः क इह कार्यार्थी' इति । तम्] ॥ छन्नमिति ॥ ३ ॥ छन्नमिति ॥ ४ ॥ शास्त्रज्ञ इति ॥५॥