________________
२१८
मृच्छकटिके
चेट: - शन्तं पावम् | (क)
विट:
(शकारो हसति । )
अप्रीतिर्भवतु विमुच्यतां हि हासो धिक्प्रीतिं परिभवकारिकामनार्याम् ।
मा भूच त्वयि मम संगतं कदाचि - दाच्छिन्नं धनुरिव निर्गुणं त्यजामि ॥ ४१ ॥
शकारः – भावे, पशीद पशीद । एहि । णलिणीए पविशिअ
-
कीलेम्ह । (ख)
विट:
अपतितमपि तावत्सेवमानं भवन्तं
पतितमिव जनोऽयं मन्यते मामनार्यम् । कथमहमनुयायां त्वां हतस्त्रीकमेनं
पुनरपि नगरस्त्रीशङ्कितार्धाक्षिदृष्टम् ॥ ४२ ॥ ( सकरुणम् ।) वसन्तसेने,
अन्यस्यामपि जातौ मा वेश्या भूस्त्वं हि सुन्दरि । चारित्र्यगुणसंपन्ने जायेथा विमले कुले ॥ ४३ ॥
शकारः – ममकेलके पुप्फकलण्डकजिण्णुज्जाणे वशन्तशेणिअं मालिअ कहिं पलाअशि । एहि । मम आवुत्तश्श अग्गदो ववहालं देहि । (ग) (इति धारयति ।)
(क) शान्तं पापम् ।
(ख) भाव, प्रसीद प्रसीद । एहि । नलिन्यां प्रविश्य क्रीडावः । (ग) मदीये पुष्पकरण्डकजीर्णोद्याने वसन्तसेनां मारयित्वा कुत्र पलायसे । एहि । मम आवुत्तस्याग्रतो व्यवहारं देहि |
मे साधारणो भवतु मनुष्याणाम् ॥ ४० ॥ अप्रीतिरिति ॥ ४१ ॥ अपतितमिति ॥ ४२ ॥ अन्यस्यामिति ॥ ४३ ॥ आउ (वु)त्तश्श भगिनीपतेः । व्यवहार (रं) विचारम् ॥ निधनं गच्छ त्विति (त्वमिति ) ॥ चेटं प्रति