________________
अष्टमोऽङ्कः।
२१७ हा सौजन्यनदि प्रहासपुलिने हा मादृशामाश्रये
हा हा नश्यति मन्मथस्य विपणिः सौभाग्यपण्याकरः॥३८॥ (सास्रम् ।) कष्टं भोः, कष्टम् ।
किं नु नाम भवेत्कार्यमिदं येन त्वया कृतम् ।
अपापा पापकल्पेन नगरश्रीनिपातिता ॥ ३९ ॥ (खगतम् ।) अये, कदाचिदयं पाप इदमकार्य मयि संक्रामयेत् । भवतु । इतो गच्छामि । (इति परिकामति ।)
(शकार उपगम्य धारयति ।) विट:-पाप, मा मा स्प्राक्षीः । अलं त्वया । गच्छाम्यहम् ।
शकारः-अले, वशन्तशेणिभं शरं जेव मालिअ मं दूशिअ कहिं पलाअशि । शंपदं ईदिशे हग्गे अणाधे पाविदे । (क) विटः-अपध्वस्तोऽसि । शकारः
अत्थं शदं देमि शुवण्णअं दे ___कहावणं देमि शवोडिअं दे। एशे दुशट्ठाण पलक्कमे मे
शामाण्णए भोदु मणुश्शआणम् ॥ ४० ॥ (ख) विटः—धिक्, तवैवास्तु । (क) अरे, वसन्तसेनां स्वयमेव मारयित्वा मां दूषयित्वा कुत्र पलायसे । सांप्रतमीदृशोऽहमनाथः प्राप्तः।। (ख) अर्थ शतं ददामि सुवर्णकं ते
कार्षापणं ददामि सवोडिणं ते । एष दोषस्थानं पराक्रमो मे
सामान्यको भवतु मनुष्यकाणाम् ॥ उवलदे उपरतः ॥ दाक्षिण्येति ॥ ३८ ॥ किं न्विति ॥ ३९ ॥ हे पाप हे पापसंकल्प ॥ अत्थं शदमिति । अर्थ शतं ददामि सुवर्णकं ते कार्षापणं ददामि सवोडिकं ते । वोडी विंशतिकपर्दका(क:) गौडे प्रसिद्धः । तच्चतुष्टयं पणः । ते षोडश कार्षापणः । कहावण इत्येके । एष दोषस्थानं पराक्रमो
मृ० १९