________________
२१६
मृच्छकटिके
विट:-अहं दक्षिणया। - शकारः-शा वि उत्तलाए । (क) विट:-अत्याकुलं कथयसि । न शुद्ध्यति मेऽन्तरात्मा । तकथय सत्यम् ।
शकारः-शवामि भावश्श शीशं अत्तणकेलकेहिं पादेहिं । ता शंठावेहि हिअअम् । एशा मए मालिदा । (ख) विटः-(सविषदाम् ।) सत्यं त्वया व्यापादिता ।
शकारः-जइ मम वअणे न पत्तिआअशि, ता पेक्ख पढमं लश्टिअशालशंठाणाह शूलत्तणम् । (ग) (इति दर्शयति ।) विटः–हा, हतोऽस्मि मन्दभाग्यः । (इति मूर्छितः पतति ।) शकारः–ही ही । उवलदे भावे । (घ)
चेटः-शमश्शशदु शमश्शशदु भावे । अविचालिअं पवहणं आणन्तेण जेव मए पढमं मालिदा । (ङ) विट:-(समाश्वस्य सकरुणम् ।) हा वसन्तसेने, दाक्षिण्योदकवाहिनी विगलिता याता स्वदेशं रति
हो हालंकृतभूषणे सुवदने क्रीडारसोद्भासिनि ।
(क) साप्युत्तरया। (ख) शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । ततः संस्थापय हृदयम् । एषा मया मारिता। ___ (ग) यदि मम वचने न प्रत्ययसे, तत्पश्य प्रथमं राष्ट्रियश्यालसंस्थानस्य शूरत्वम् ।
(घ) ही ही । उपरतो भावः।
(ङ) समाश्वसितु समाश्वसितु भावः । अविचारितं प्रवहणमानयतैव मया प्रथमं मारिता।
शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । संस्थापय हृदयम् । एषा मया मारिता ॥ यदि मम न प्रत्येषि पराक्रमे, ततः प्रेक्षख राष्ट्रिक(य)श्यालस्य शूरत्वम् ।