________________
अष्टमोऽङ्कः ।
विट:- आः, तिष्ठ जाल्म । (इति खड्गमाकर्षति ।)
शकारः — (सभयमपसृत्य 1) किं ले, भीदेशि । ता गच्छ । (क)
--
२१९
विट: – (स्वगतम् ।) न युक्तमवस्थातुम् । भवतु । यत्रार्यशर्विलकचन्दनकप्रभृतयः सन्ति, तत्र गच्छामि । (इति निष्क्रान्तः ।)
कीलिशे
शकारः - णिधणं गच्छ । अले थावलका पुश्तका, म कडे । (ख)
1
चेट:- भट्टके, महन्ते अकज्जे कडे । (ग) शकारः – अले चेडे, किं भणाशि अकजे कडेति । भोदु । एव्वं दाव। (नानाभरणान्यवतार्य ।) गेण्ह एदं अलंकारअम् । मए ताव दिण्णे । जेत्तिके वेले अलंकलेमि तेत्तिकं वेलं मम । अण्णं तव । (घ)
चेट: - भट्ट के ज्जेव एदे शोहन्ति । किं मम एदेहिं । (ङ) शकारः –ता गच्छ । एदाई गोणाई गेव्हिअ ममकेलकाए पाशादबालग्गपदोलिकाए चिश्ट । जाव हग्गे आअच्छामि । (च) चेट: - जं भट्टके आणवेदि । (छ) (इति निष्कान्तः ।)
किं रे, भीतोऽसि । तद्गच्छ ।
(ख) निधनं गच्छ | अरे स्थावरक पुत्रक, कीदृशं मया कृतम् । (ग) भट्टक, महदकार्य कृतम् ।
(घ) अरे चेट, किं भणस्यकार्ये कृतमिति । भक्तु । एवं तावत् । गृहाणेममलंकारम् । मया तावद्दत्तम् । यावत्यां वेलायामलंकरोमि तावतीं वेलां मम । आज्ञा तव ।
(ङ) भट्टक एवैते शोभन्ते । किं ममैतैः ।
(च) तद्गच्छ । एतौ वृषभौ गृहीत्वा मदीयायां प्रासाद बालाग्रप्रतोलिकायां तिष्ठ । यावदहमागच्छामि ।
(छ) यद्भट्टक आज्ञापयति ।
ब्रूते । यस्यां वेलायामलंकलेमीति अलंकरोमीति वक्तव्ये इति पुरातनटीका (?) ॥ पासादबालग्गपडोलिआए । प्रासादोपरिगृहविशेष इति पश्चाद्वयाख्यातम् ॥