________________
अष्टमोऽङ्कः।
२१३ जणो असंपुण्णमणोरधो जेव विवजदि । ता उद्धं अक्कन्दइस्सम् । अधवा वसन्तसेणा उद्धं अक्कन्ददि त्ति लजणीअं क्खु एदम् । णमो अज्जचारुदत्तस्स । (क)
शकारः-अज्जवि गन्भदाशी तश्श जेव पावस्स णामं गेण्हदि (इति कण्ठे पीडयन् ।) शुमल गब्भदाशि, शुमल । (ख)
वसन्तसेना-णमो अजचारुदत्तस्स । (ग)
शकारः-मल गब्भदाशि, मल । (घ) (नाट्येन कण्ठे निपीडय. न्मारयति ।)
(वसन्तसेना मूर्च्छिता निश्चेष्टा पतति ।) शकारः-(सहर्षम् ।) एवं दोशकलण्डिअं अविणअश्शावासभूदं खलं __ लत्तं तश्श किलागदश्श लमणे कालागदं आअदम् ।
रुद्रो राजा द्रोणपुत्रो जटायु
चाणक्यो वा धुन्धुमारस्त्रिशङ्कुः ॥ अथवा, एतेऽपि त्वां न रक्षन्ति ।
. चाणक्येन यथा सीता मारिता भारते युगे । ___ एवं त्वां मोटयिष्यामि जटायुरिव द्रौपदीम् ॥ (क) हा मातः, कुत्रासि । हा आर्यचारुदत्त, एष जनोऽसंपूर्णमनोरथ एव विपद्यते । तदूर्ध्वमाक्रन्दयिष्यामि । अथवा वसन्तसेनोर्ध्वमाक्रन्दतीति लज्जनीयं खल्वेतत् । नम आर्यचारुदत्ताय ।
(ख) अद्यापि गर्भदासी तस्यैव पापस्य नाम गृह्णाति । स्मर गर्भदासि, स्मर।
(ग) नम आर्यचारुदत्ताय । (घ) म्रियतां गर्भदासि, म्रियताम् । सुबन्धुः । रुद्रो राजा द्रोणपुत्रो जटायुश्चाणक्यो वा धुन्धुमारस्त्रिशङ्कः ॥ कालनेमिरसुरः सुबन्धुः कविविशेषः । धुन्धुरसुरभेदः ॥३४॥ अथ वा, एतेऽपि त्वां न रक्षन्ति । चाणक्येनेत्यादि । अर्थस्तु-चाणक्येन यथा सीता मारिता भारते युगे भारतावच्छिन्ने सुमये । एवं त्वां मारयिष्यामि जटायुरिव द्रौपदीम् ॥ ३५॥ ऊर्ध्वमुच्चैस्तराम् ॥ शुमल स्मर ॥मल म्रियस्व । एदं दोशकलण्डिअमित्यादि ।