________________
मृच्छकटिके
वसन्तसेना - हिअअगदो ज्जेव किंत्ति न सुमरीअदि । (क) शकार:- अज्ज वि दे हिअअगदं तुमं च शमं ज्जेव मोडेमि । ता दलिद्दशत्थवाह अमणुश्शकामुकिणि, चिश्ट चिश्ट । (ख) वसन्तसेना-भण भण पुणो वि भण सलाहणिभई एदाई अखराई । (ग)
२१२
शकार: – पलित्ताअदु दाशीए पुत्ते दलिद्दचालुदत्ताके तुनम् । (घ)
वसन्तसेना — परित्ताअदि जदि मं पेक्खदि । (ङ)
शकार :
&
किं शे शक्के वालिपुत्ते महिन्दे लम्भापुत्ते कालणेमी शुबन्धू । दे ला दोणपुत्ते जडाऊ चाणक्के वा धुन्धुमाले तिशङ्क ॥ ३४ ॥
अधवा, देवि दे ण लक्खन्ति ।
चाणक्केण जधा शीदा मालिदा भालदे जुए ।
एव्वं दे मोडइश्शामि जडाऊ विअ दोव्वदिम् || ३५॥ (च) (इति ताडयितुमुद्यतः । )
वसन्तसेना – हा अत्ते, कहिं सि । हा अज्जचारुदत्त, एसो
(क) हृदयगत एव किमिति न स्मर्यते ।
(ख) अद्यापि ते हृदयगतं त्वां च सममेव मोटयामि । तद्दरिद्रार्थबाहकमनुष्यकामुकिनि, तिष्ठ तिष्ठ ।
(ग) भण भण पुनरपि भण श्लाघनीयान्येतान्यक्षराणि ।
(घ) परित्रायतां दास्याः पुत्रो दरिद्रचारुदत्तकस्त्वाम् । (ङ) परित्रायते यदि मां प्रेक्षते ।
किं स शक्रो वालिपुत्रो महेन्द्रो रम्भापुत्रः कालनेमिः सुबन्धुः ।
देती (न्ती) साक्षेपं वदन्ती इति देशीति चिरंतनटीका ॥ किं शे शक्के इति । शक्करीविशेषच्छन्दसा श्लोकः । किमसौ [शको] वालिपुत्रो महेन्द्रो रम्भापुत्रः कालनेमि