SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽङ्कः। २११ तधा वि मं णेच्छशि शुद्धदन्ति ____किं शेवरं कश्टमआ मणुश्शा ॥ ३१ ॥ (क) वसन्तसेना-को एत्थ संदेहो । (अवनतमुखी ‘खलचरित' इत्यादि श्लोकद्वयं पठति ।) खलचरित निकृष्ट जातदोषः कथमिह मां परिलोभसे धनेन । सुचरितचरितं विशुद्धदेहं न हि कमलं मधुपाः परित्यजन्ति ॥ ३२ ॥ यत्नेन सेवितव्यः पुरुषः कुलशीलवान्दरिद्रोऽपि । शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः ॥ ३३ ॥ अवि अ । सहआरपादवं सेविअ ण पलासपादवं अङ्गीकरिस्सम् । (ख) ___शकारः-दाशीए धीए, दलिद्दचालुदत्ताके शहआलपादवे कडे, हग्गे उण पलाशे भणिदे, किंशुके वि ण कडे । एव्वं तुमं ने गालिं देन्ती अजवि तं जेव चालुदत्ताकं शुमलेशि । (ग) (क) सुवर्णकं ददामि प्रियं वदामि पतामि शीर्षण सवेष्टनेन । तथापि मां नेच्छसि शुद्धदन्ति किं सेवकं कष्टमया मनुष्याः ॥ (ख) कोऽत्र संदेहः । अपि च । सहकारपादपं सेवित्वा न पलाशपादपमङ्गीकरिष्यामि । (ग) दास्याः पुत्रि, दरिद्रचारुदत्तकः सहकारपादपः कृतः, अहं पुनः पलाशो भणितः, किंशुकोऽपि न कृतः । एवं त्वं मह्यं गाली ददत्यद्यापि तमेव चारुदत्तकं स्मरसि । सवेष्टनेन सोष्णीषेण । तेन नूनं वेशूनी इति प्रसिद्धम् (?)। तथापि मां नेच्छसि शुद्धदन्ति किं सेवका कष्टमया मनुष्याः॥३१॥ 'खलचरित' 'यत्नेन' [इति। प्रतीकपाठो दृश्यते। तत्र इत्यादि' इत्यध्याहार्यः। इत्यादि श्लोकद्वयं पठतीत्यर्थः। खलचरितेति निकृष्टेति च संबोधनद्वयम् ॥३२॥३३॥पलाशपदेन राक्षसोऽप्यभिधीयते ।गालिं
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy