________________
२१०
मृच्छकटिके
वसन्तसेना-(पटान्ते गृहीत्वा ।) णं भणामि शरणागदम्हि । (क विटः–वसन्तसेने, न भेतव्यं न भेतव्यम् । काणेलीमातः, वसन्तसेना तव हस्ते न्यासः ।
शकारः-एव्वम् । मम हश्ते एशा णाशेण चिश्टदु । (ख) विटः-सत्यम् । शकारः-शच्चम् । (ग)
विट:-(किंचिद्गत्वा ।) अथवा मयि गते नृशंसो हन्यादेनाम् । तदपवारितशरीरः पश्यामि तावदस्य चिकीर्षितम् । (इत्येकान्ते स्थितः।)
शकारः-भोदु । मालइश्शम् । अधवा कवडकावडिके एशे बम्हणे वुड्डखोडे कदावि ओवालिदशलीले गडिअ शिआले भविअ हुलुभुलिं कलेदि । ता एदश्श वञ्चणाणिमित्तं एव्वं दाव कलइश्शम् । (कुसुमावचयं कुर्वन्नात्मानं मण्डयति ।) वाशू वाशू वशन्तशेणिए, एहि । (घ)
विटः-अये, कामी संवृत्तः । हन्त, निवृतोऽस्मि । गच्छामि । (इति निष्कान्तः ।) शकार:
शुवण्णों देमि पिरं वदेमि ___ पडेमि शीशेण शवेश्टणेण ।
(क) ननु भणामि शरणागतास्मि । (ख) एवम् । मम हस्त एषा न्यासेन तिष्ठतु । (ग) सत्यम् । (घ) भवतु । मारयिष्यामि । अथवा कपटकापटिक एष ब्राह्मणो वृद्धशृगालः कदाचिदपवारितशरीरो गत्वा शृगालो भूत्वा कपटं करोति । तदेतस्य वञ्चनानिमित्तमेवं तावत्करिष्यामि । बाले बाले वसन्तसेने, एहि ।
च ॥अथ वा कपटकापटिको ब्राह्मणः वृद्धखोडः कदाचिदपवारितस्तिष्ठति शृगालः ॥ सुवण्णकमिति । उपजातिः । सुवर्णकं ददामि, प्रियं वदामि, पतामि शीर्षण