________________
VII Act. सप्तमाऽङ्के
आर्यको जीर्णोद्यानं गतः सानुकम्पं चारुदत्तेन मोचितापरपादशृङ्खलो रथारूढ एव राजभयात् स्वघोषम पक्रामति, सपरिजनश्चारुदत्तो निजसदनम् ॥
VIII Act. अष्टमाऽङ्के
स्थावर केण शकारोद्याने नीतां वसन्तसेनां विटचेटौ कार्यव्याजेनान्यत्र प्रेष्यैकान्ते रन्तुं प्रत्याचक्षाणां मोटयित्वा वृक्षपर्णचयेन प्रच्छाद्य सपरिजने शकारे "गते, तदुद्यानैकदेशे वस्त्राणि प्रक्षाल्य शोषयितुकामः शकारताडितपूर्वः श्रमणकः पत्रचयमासाद्य स्फुरणेन सान्तरमवबुध्य पर्णाम्युत्तार्य स्त्रियं दृष्ट्वा माथुरकद्यूतकराभ्यां दशसुवर्णदातव्ये सुवर्णवलयप्रदानेन निजोपकारिकां वसन्तसेनामेव प्रत्यभिज्ञाय 'पूर्वमनुगृहीतः संवाहकोऽहमस्मि इति परिचाय्य निकटविहारस्थनिजधर्मभगिनीं प्रति तां गमयति समाश्वस्तमना गेहं यातु सेत्यर्थम् ॥ IX Act. नवमाऽङ्के
अधिकरणे गत्वा 'मदुद्यानेऽर्थमादातुं वसन्तसेना चारुदत्तेन मारिता' इति निवेदयति संस्थानके तन्निर्णयायाहूतायां वसन्तसेनामातरि च 'निजवलभं चारुदत्तं रमयितुं गता' इति निरूपयन्त्यामकस्मात्तत्रागत्य प्रधानदण्डपालकवीर के 'न केनाप्यवगुण्ठितेन गन्तव्यम्' इति राजाज्ञया छन्नरथेन चारुदत्तं रमयितुं जीर्णोद्यानं गच्छन्तीं वसन्तसेनां विलोकितुं प्रवृत्तोऽहं चन्दनमहत्तरकेणापमानितः पादताडनेनेति वर्णयति, रोहसेनाय वसन्तसेनादत्तानि निजभूषणानि पुनस्तां प्रत्यर्पयितुं कुक्षौ निधाय निजमित्रमधिकरणभोजकशब्दायितं निरीक्षितुमागते विदूषके शकारेणोच्चावचं प्रलप्याकुशलतया सर्वसमक्षं तानि तत्रैव पातयति, विभावितापराधं चारुदत्तं पुरान्निर्वासयितुं राजनि विज्ञापिते च “गलबद्धैस्तैरेव भूषणैस्तं दक्षिणश्मशानं नीत्वा शुले भत” इति समादिशति भूपः शोधनकं च नयति तं चाण्डालाभ्याम् ॥
X Act. दशमाऽङ्के
राजनिदेशाद् वध्यस्थानं नीतः, सडिण्डिमं हन्तुमुद्घोषितो, दैववशाच्छिन्नबन्धनतया स्वीयप्रासादबालाग्रप्रतोलिकायां शकारेण मन्त्ररक्षणाय दण्डनिगडेन बद्धा निक्षिप्तेन तदीयस्थावरकाभिधेयचेटेन परलोकजिगमिपुणा जीर्णगवाक्षात् कथंचित् पातितात्मना निर्दोषमुद्भावितोपि पश्चादागतेनसकपटं तदुक्तं अपलाप्य, ताताभिलाषेण संगन्तुमागतेन रोहसेनेन
こ