________________
सहैव रिपुं मारयितुं प्रजल्पता, तदनु निजचेटमाक्रम्यैकान्तमधितिष्ठसा शकारेण पुनस्तथैवापवादितः, प्रजिहीर्षभ्यां गृहीतपतितखङ्गाभ्यां चाण्डालाभ्यां शूलायामारोपयिषितस्त्वरितमागत्य वसन्तसेनां मेलयतः संवाहकश्रमणकात् स्वल्पानन्तरमेवार्यकेण यज्ञवाटस्थपालकं निघात्य निजमित्रमार्यकं राज्येऽभिषिच्यागतेन शर्विलकेनोपंसेवितश्चारुदत्तोऽग्निप्रवेशाय व्यवसितां धूतां सत्वरं सम्भाव्य संवाहकं सर्वविहारेषु कुलपतित्वे, चन्दनकं पृथिवीदण्डपालकत्वे, स्थावरकं दास्यनिर्मुक्तौ, हन्तुं गृहीतुं शकारं पूर्वाधि. कारे, चाण्डालौ स्वजात्याधिपत्ये, चार्यकभूपतिना नियोजयति शर्विलकेन सवधूशब्दोच्चारमवगुण्ठितां वसन्तसेनां अर्धाङ्गित्व इव निजपरिग्रहत्वे संगृह्णाति ॥