________________
अष्टमोऽङ्कः।
२०७ चेटः–जादिशे हग्गे पलपिण्डभक्खके भूदे । ता अकजं ण कलइश्शम् । (क)
शकारः-अले, ण मालिश्शशि । (ख) (इति बहुविधं ताडयति।) चेटः पिट्ठयदु भट्टके, मालेदु भट्टके, अकजं ण कलइश्शम् । जेण म्हि गब्भदाशे विणिम्मिदे भाअधेअदोशेहिं । अहिअं च ण कीणिश्शं तेण अकजं पलिहलामि ॥ २५॥ (ग) वसन्तसेना-भाव, शरणागद म्हि । (घ) । विटः-काणेलीमातः, मर्षय मर्षय । साधु स्थावरक, साधु ।
अप्येष नाम परिभूतदशो दरिद्रः
प्रेण्यः परत्र फलमिच्छति नास्य भर्ता । तस्मादमी कथमिवाद्य न यान्ति नाशं
ये वर्धयन्त्यसदृशं सदृशं त्यजन्ति ॥ २६ ॥ अपि च ।
रन्ध्रानुसारी विषमः कृतान्तो
यदस्य दास्यं तव चेश्वरत्वम् । . श्रियं त्वदीयां यदयं न भुङ्क्ते
यदेतदाज्ञां न भवान्करोति ॥ २७ ॥ (क) यादृशोऽहं परपिण्डभक्षको भूतः । तदकार्य न करिष्यामि । (ख) अरे, न मारयिष्यसि । (ग) ताडयतु भट्टकः, मारयतु भट्टकः, अकार्य न करिष्यामि ।
येनास्मि गर्भदासो विनिर्मितो भागधेयदोषैः ।
अधिकं च न क्रीणिष्यामि तेनाकार्य परिहरामि ॥ (घ) भाव, शरणागतास्मि । शिष्टम् ॥प्रभवति मम भट्टारकः शरीरस्य, न चारित्र्यस्य ॥ परपिण्डभक्षको भूतः ॥ पिट्टय तु ताडयतु मारयतु वा । जेण म्हीत्यादि । गाथा । येनास्मि गर्भदासो विनिर्मितो भागधेयदोषेण । अधिकं च न क्रीणि(के)ष्यामि तेनाहमकार्य परिहः