SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २०६ मृच्छकटिके शकारः-एणं वशन्तशेणि मालेहि । (क) चेटः-पशीददु भट्टके । इअं मए अणजेण अजा पवहणपलिवत्तणेण आणीदा । (ख) शकारः-अले चेडा, तवावि ण पहवामि । (ग) चेट:-पहवदि भट्टके शलीलाह, ण चालित्ताह। ता पशीदु पशीददु भट्टके । भाआमि क्खु अहम् । (घ) शकारः-तुमं मम चेडे भविअ कश्श भाआशि । (ङ) चेटः–भट्टके, पललोअश्श । (च) शकारः–के शे पललोए । (छ) . चेटः–भट्टके, शुकिददुक्किदश्श पलिणामे । (ज) शकारः—केलिशे शुकिदश्श पलिणामे । (झ) चेट:-जादिशे भट्टके बहुशोवण्णमण्डिदे । (ञ) शकारः-दुक्किदश्श केलिशे । (ट) (क) एनां वसन्तसेनां मारय । (ख) प्रसीदतु भट्टकः । इयं मयानार्येणार्या प्रवहणपरिवर्तनेनानीता । (ग) अरे चेट, तवापि न प्रभवामि । (घ) प्रभवति भट्टकः शरीरस्य, न चारित्रस्य । तत्प्रसीदतु प्रसीदतु भट्टकः । बिभेमि खल्वहम् । (ङ) त्वं मम चेटो भूत्वा कस्माद्विभेषि । (च) भट्टक, परलोकात् । (छ) कः स परलोकः । (ज) भट्टक, सुकृतदुष्कृतस्य परिणामः । (झ) कीदृशः सुकृतस्य परिणामः । (ब) यादृशो भट्टको बहुसुवर्णमण्डितः । (ट) दुष्कृतस्य कीदृशः।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy