________________
अष्टमोऽङ्कः।
२०५ शकारः-अधम्मभीलू एशे वुड्डकोले । भोदु । थावलअं चेडं अणुणेमि । पुत्तकाथावलका चेडा, शोवण्णखण्डुआई दइश्शम् । (क)
चेटः-अहं पि पहिलिश्शम् । (ख) शकारः-शोवण्णं दे पीढके कालइश्शम् । (ग) चेटः-अहं पि उवविशिश्शम् । (घ) शकारः-शव्वं दे उच्छिश्टअं दइश्शम् । (ङ) चेटः-अहं पि खाइश्शम् । (च) शकारः-शव्वचेडाणं महत्तलकं कलइश्शम् । (छ) . चेटः-भट्टके, हुविश्शम् । (ज) शकारः-ता मण्णेहि मम वअणम् (झ). चेटः-भट्टके, शव्वं कलेमि वजिअ अकज्जम् । (ञ) शकारः-अकजाह गन्धे वि णत्थि । (ट) चेटः–भणादु भट्टके । (ठ) (क) अधर्मभीरुरेष वृद्धकोलः । भवतु । स्थावरकं चेटमनुनयामि । पुत्रक स्थावरक चेट, सुवर्णकटकानि दास्यामि । (ख) अहमपि परिधास्यामि । (ग) सौवर्ण ते पीठकं कारयिष्यामि । (घ) अहमप्युपवेक्ष्यामि । (ङ) सर्व त उच्छिष्टं दास्यामि । (च) अहमपि खादिष्यामि । (छ) सर्वचेटानां महत्तरकं कारयिष्यामि । (ज) भट्टक, भविष्यामि । (झ) तन्मन्यस्व मम वचनम् । (ञ) भट्टक, सर्वं करोमि वर्जयित्वाकार्यम् । (ट) अकार्यस्य गन्धोऽपि नास्ति ।
(ठ) भणतु भट्टकः । धिकृतः॥ खण्डुआई बाहुवलय[वि]शेषान् ॥ पहिलिस्सं परिधास्ये ॥ पीढके पीठम् ॥ उवविसिस्सं उपवेक्ष्यामि ॥ तंवहिहिसिधोष्टासि () उच्छिश्टअं भोजनाव
मृ० १८