________________
२०४
मृच्छकटिके
विट:-बाढं करोमि वर्जयित्वा त्वकार्यम् । • शकारः-भावे, अकज्जाह गन्धे वि णत्थि । लक्खशी कावि णत्थि । (क) विटः-उच्यतां तर्हि । शकारः-मालेहि वसन्तशेणिअम् । (ख) विटः—(कर्णी पिधाय ।)
बालां स्त्रियं च नगरस्य विभूषणं च " वेश्यामवेशसदृशप्रणयोपचाराम् । एनामनागसमहं यदि घातयामि
केनोडपेन परलोकनदीं तरिष्ये ॥ २३ ॥ शकारः-अहं ते भेडकं दइश्शम् । अण्णं च । विवित्ते उजाणे इध मालन्तं को तुमं पेक्खिश्शदि । (ग) विटः
पश्यन्ति मां दशदिशो वनदेवताश्च
चन्द्रश्च दीप्तकिरणश्च दिवाकरोऽयम् । धर्मानिलौ च गगनं च तथान्तरात्मा
भूमिस्तथा सुकृतदुष्कृतसाक्षिभूता ॥ २४ ॥ शकारः-तेण हि पडन्तोवालिदं कदुअ मालेहि । (घ) विटः-मूर्ख, अपध्वस्तोऽसि । (क) भाव अकार्यस्य गन्धोऽपि नास्ति । राक्षसी कापि नास्ति । (ख) मारय वसन्तसेनाम् ।
(ग) अहं त उडुपं दास्यामि । अन्यच्च । विविक्ते उद्यान इह मारयन्तं कस्त्वां प्रेक्षिष्यते ।
(घ) तेन हि पटान्तापवारितां कृत्वा मारय । चुक्कु चुहू चुहूत्ति इत्यनुकरणम् ॥ २२ ॥ निक्षिकेऽन्योन्यार्थावेतौ (2)॥ बालामिति । अवेशसदृशेति । अवेश्यापाटकोचितं कृत्तिमम् (2) ॥ २३ ॥ विवित्ते विजने । पटान्तापवारितां कृत्वा ॥ पश्यन्तीति ॥ २४ ॥ अपध्वस्तो