SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ विटः- ततः किम् । अष्टमोऽङ्कः । विट: अग्राह्या मूर्धजेताः स्त्रियो गुणसमन्विताः । न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥ २१ ॥ तदुत्तिष्ठत्वम् । अहमेनामवतारयामि । वसन्तसेने, अवतीर्यताम् । (वसन्तसेनावतीर्यैकान्ते स्थिता ।) शकार : - (स्वगतम् ।) जे शे मम वअणावमाणेण तदा लोशधुक्खदे, अज्ज एदाए पादप्पहालेण अणेण पज्जलि दे । तं शंपदं मालेम णम् । भोदु । एव्वं दाव । (प्रकाशम् ।) भावे भावे, जदिच्छशे लम्बदशा विशालं पावालअं शुत्तशदेहिं जुत्तम् । मंशं च खादुं तह तुश्टि कार्टु चुहू चुहू चुक्कु चुहू चुहूति ॥ २२ ॥ ( क ) शकार :- - मम पिअं कलेहि । (ख) ―――― २०३ कर्षामि ते वरतनुं निजयानका त्केशेषु वालिदयितामिव यथा जटायुः ॥ (क) यः स मम वचनावमानेन तदा रोषाग्निः संधुक्षितः, अद्यैतस्याः पादप्रहारेणानेन प्रज्वलितः । तत्सांप्रतं मारयाम्येनाम् । भवतु । एवं तावत् । भाव भाव, यदीच्छसि लम्बदशाविशालं प्रावारकं सूत्रशतैर्युक्तम् । मांसं च खादितुं तथा तुष्टिं कर्तुं चुहू चुहू चुक्कु चुहू चुहू इति ॥ (ख) मम प्रियं कुरु । अग्राह्या इति ॥ २१ ॥ योऽसौ वञ्च (च) नावमानेन तदा रोषाग्निः संधुक्षितः । सोऽद्यैतस्याः पादप्रहारेणानेन प्रज्वलितः । ततः सांप्रतं मारयाम्येनाम् । जदिच्छसे इत्यादि । उपजातिच्छन्दसा | यदीच्छसि लम्बदशाविशालं प्रावारकं प्रच्छदं सूत्रशतैर्ग्रथितम् । मत्स्यं च खादितुं तथा तुष्टिं कर्तुम् । चुहू चुहू
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy