________________
२०२
मृच्छकटिके
पलिवट्टिभं कलेमि, ताव एशा पवइणविपज्जाशेण इह आलूढेत्ति तक्केमि । (क)
शकारः — कथं पवहणविपज्जाशेण आगदा । ण मं अहिशालिदुम् । ता ओदल ओदल ममकेलकादो पवहणादो । तुमं तं दलिद्दशत्थवाहपुत्तकं अहिशालेशि । ममकेलकाई गोणाई वाहेशि । ता ओदल ओदल गब्भदाशि, ओदल ओदल । (ख)
वसन्तसेना - तं अज्जचारुदत्तं अहिसारेसि त्ति जं सच्चम्, अलंकिदम्हि इमिणा वअणेण । संपदं जं भोदु तं भोदु । (ग)
शकार :
एदेहिं दे दशणहुप्पलमण्डले हिं हत्थेहिं चाडुशदताडणलम्पडेहिं ।
कट्टामि दे वलतणुं णिअजाणकादो
केशेशु वालिदइअं वि जहा जडाऊ || २० || (घ)
(क) भट्टक, ग्रामशकटै रुद्धो राजमार्गः । तदा चारुदत्तस्य वृक्षवाटि - कायां प्रवहणं स्थापयित्वा तत्रावतीर्य यावच्चऋपरिवृत्तिं करोमि, तावदेषा प्रवहणविपर्यासेनेहारूढेति तर्कयामि ।
(ख) कथं प्रवहणविपर्यासेनागता । न मामभिसारयितुम् । तदवतरावतर मदीयात्प्रवहणात् । त्वं तं दरिद्रसार्थवाहपुत्रकमभिसारयसि । मदीयौ गावौ वाहयसि । तदवतरावतर गर्भदासि, अवतरावतर ।
(ग) तमर्यचारुदत्तमभिसारयसीति यत्सत्यम्, अलंकृतास्म्यमुना वचनेन । सांप्रतं यद्भवतु तद्भवतु ।
(घ)
एताभ्यां ते दशनखोत्पलमण्डलाभ्यां
S
हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् ।
कः । मुण्डा इति बहुवचनमप्यनर्थकम् ॥ १९ ॥ एदेहिं इत्यादि । वसन्ततिलकच्छन्दसा । सबिन्दोः पाक्षिक गुरुत्वात् एदेहिं हत्थेहिं इत्यनयोर्लघुत्वम् । एताभ्यां तव दशनखोत्पलमण्डलाभ्यां हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् । कर्षयामि त्वाम् । वरतनुं मम (निज) यानकात्केशेषु वालिदयितामिव यथा केशेषु जटायुराकृष्टवान् । पाठान्तरे हनूमानित्यर्थः । व्याहृतोपमं चेदम् ॥ २० ॥