________________
मृच्छकटिके
शकारः—(खगतम् ।) अधम्मभिलुए वुड्ढखोडे, पललोअभिलू एशे गब्भदाशे । हग्गे लट्टिअशाले कश्श भाआमि वलपुलिशमणुश्शे । (प्रकाशम् ।) अले यब्दाशे चेडे, गच्छ तुमम् । ओवलके पविशिअ वशन्ते एअन्ते चिश्ट । (क)
२०८
चेट: - जं भट्टके आणवेदि । ( वसन्तसेनामुपसृत्य ।) अज्जए, त्ति मे विहवे । (ख) (इति निष्क्रान्तः ।)
शकारः —— (परिकरं बनन् ।) चिश्ट वशन्तशेणिए, चिश्ट | मालइश्शम् । (ग)
विट: - आः, ममाग्रतो व्यापादयिष्यसि । ( इति गले गृह्णाति ।) शकार : - ( भूमौ पतति । ) भावे भट्टकं मादि । (इति मोहं नाटयति । चेतनां लब्ध्वा । )
शव्वकालं मए पुश्टे मंशेण अघिएण अ ।
अज्ज कज्जे शमुपणे जादे मे वैलिए कधम् ॥ २८ ॥ (विचिन्त्य ।) भोदु । लद्धे मए उवाए । दिण्णा बुडूखोडेण शिलश्चालणशण्णा । ता एवं पेशिअ वशन्तशेणिअं मालइश्शम् । एव्वं दाव । (प्रकाशम् ।) भावे, जं तुमं मए भणिदे, तं कथं हग्गे एव्वं
(क) अधर्मभीरुको वृद्धशृगालः, परलोक भीरुरेष गर्भदासः । अहं राष्ट्रियश्यालः कस्माद्विभेमि वरपुरुषमनुष्यः । अरे गर्भदास चेट, गच्छ त्वम् । अपवारके प्रविश्य विश्रान्त एकान्ते तिष्ठ ।
(ख) यद्भट्टक आज्ञापयति । आर्ये, एतावान्मे विभवः । (ग) तिष्ठ वसन्तसेने, तिष्ठ । मारयिष्यामि ।
रामि ॥ २५ ॥ अपीति ॥ २६ ॥ रन्ध्रेति ॥ २७ ॥ कस्स भाआमि क(स्मात् )स्य बिभेमि । अपि तु न कस्यापीत्यर्थः ॥ ओवलिके अपवारके । गृहविशेष इत्यर्थः ॥ परिकरं काछ इति प्रसिद्धम् ॥ सर्वकालमित्यादि । अर्थस्तु — सर्वकालं मया पुष्टो मांसेन च घृतेन च । अद्य कार्ये समुत्पन्ने जातो मे वैरिकः कथम् ॥ वैरिको वैरी । स्वार्थे कः ॥ २८ ॥ लब्धो मयोपायः । दत्ता वृद्धखोडेन शण्णा उपदेश: । एदं विटम् । भाव, यत्त्वं मया भणितः । सर्वः समम् (!) । कथमहं एवं बृहतो मलकप्रमाणात् । समुद्रप्रमाणादिति वक्तव्ये मो(मौ)र्ल्यान्मल
1