________________
२००
मृच्छकटिके
अधवा चिश्ट चिश्ट । देवदाणं बम्भणाणं च अग्गदो चलणेण गच्छामि । णहि हि । पवहणं अहिलुहिअ गच्छामि, जेण दूलदो मं पेक्खि भणिश्शन्ति — 'एशे शे लश्टिअशाले भश्टालके गच्छदि' । (क)
विट:- (स्वगतम् ।) दुष्करं विषमौषधीकर्तुम् । भवतु । एवं तावत् । (प्रकाशम् ।) काणेलीमातः, एषा वसन्तसेना भवन्तमभिसारयितुमागता ।
वसन्तसेना - सन्तं पावम् । सन्तं पावम् । (ख)
शकार: – ( सहर्षम् ) भावे भावे, मं पबलपुलिशं मणुश्शं वाशुदेवकम् । (ग)
विट:- अथ किम् ।
शकार :- तेण हि अपुब्वा शिली शमाशादिदा । तरिंश काले ए लोशाविदा, शंपदं पादेशं पडिअ पशादेमि । (घ)
विटः - साध्वभिहितम् ।
शकारः - एशे पादेशुं पडेमि । ( इति वसन्तसेनामुपसृत्य ।) अत्तिके, अम्बिके शुणु मम विष्णत्तिम् । (ङ)
(क) एवं भवतु । स्थावरक चेट, नय प्रवहणम् । अथवा तिष्ठ तिष्ठ । देवतानां ब्राह्मणानां चाग्रतश्चरणेन गच्छामि । नहि नहि । प्रव्रहणमधिरुह्य गच्छामि, येन दूरतो मां प्रेक्ष्य भणिष्यन्ति – 'एष स राष्ट्रियश्यालो भट्टारको गच्छति' ।
-
(ख) शान्तं पापम् । शान्तं पापम् ।
(ग) भाव भाव, मां प्रवरपुरुषं मनुष्यं वासुदेवकम् ।
(घ) तेन ह्युपूर्वा श्रीः समासादिता । तस्मिन्काले मया रोषिता, सांप्रतं पादयोः पतित्वा प्रसादयामि |
(ङ) एष पादयोः पतामि । मातः, अम्बिके, श्रृणु मम विज्ञप्तिम् । अथवेत्यतलस्थोक्तिः । शृगाला उड्डीयन्तीत्यादि चतुष्टयमपक्रमम् । देवदाणं बम्भणाणं अग्गदो चलणेण गच्छामि । नहि नहीति न्यायविरुद्धम् ॥ तेन ह्यपूर्वा श्रीः समासादिता । लोशाविदा रोषिता ॥ हे अत्तिके