SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १२९ अष्टमोऽङ्कः। शरच्चन्द्रप्रतीकाशं पुलिनान्तरशायिनम् । हंसी हंसं परित्यज्य वायसं समुपस्थिता ॥ १६ ॥ (जनान्तिकम् ।) वसन्तसेने, न युक्तमिदम्, नापि सदृशमिदम् । पूर्व मानादवज्ञाय द्रव्यार्थे जननीवशात् । वसन्तसेना-ण । (क) (इति शिरश्चालयति ।) वि: __ अशौण्डीर्यस्वभावेन वेशभावेन मन्यते ॥ १७ ॥ ननूक्तमेव मया भवतीं प्रति—'सममुपचर भद्रे सुप्रियं चाप्रियं च ।' वसन्तसेना—पवहणविपज्जासेण आगदा । सरणागदम्हि । (ख) विट:-न भेतव्यं न भेतव्यम् । भवतु । एनं वञ्चयामि । (शकारमुपगम्य ।) काणेलीमातः, सत्यं राक्षस्येवात्र प्रतिवसति । . शकारः-भावे भावे, जइ लक्खशी पडिवशदि, ता कीश ण तुमं मूशेदि । अध चोले, ता किं तुमं ण भक्खिदे । (ग) विटः–किमनेन निरूपितेन । यदि पुनरुद्यानपरम्परया पट्यामेव नगरीमुज्जयिनी प्रविशावः, तदा को दोषः स्यात् । शकारः-एव्वं किदे तिं भोदि । (घ) विट:-एवं कृते व्यायामः सेवितो धुर्याणां च परिश्रमः परिहृतो भवति । शकारः–एवं भोदु । थावलआ चेडा, णेह पवहणम् । (क) न। (ख) प्रवहणविपर्यासेनागता । शरणागतास्मि । (ग) भाव भाव, यदि राक्षसी प्रतिवसति, तत्कथं न त्वां मुष्णाति । अथ चौरः, तदा किं त्वं न भक्षितः । (घ) एवं कृते किं भवति । नायाति कातरं विदुःखं काकादने भीरुः (१) । शरदिति ॥ १६ ॥ पूर्वमिति । वेशाभावेन (2) ॥ १७ ॥ नाम्पश इति न्यन्तात् । कर्मणि लकारः । मोक्षयति (?) । भक्खिदे भक्षितः । विपरीतोक्तिः पूर्ववत् ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy