________________
१९८
मृच्छकटिके
अवनतशिरसः प्रयाम शीघ्र __ पथि वृषभा इव वर्षताडिताक्षाः । मम हि सदसि गौरवप्रियस्य
__कुलजनदर्शनकातरं हि चक्षुः ॥ १५ ॥ वसन्तसेना--(सविस्मयमात्मगतम् ।) कधं मम णअणाणं आआसअरो जेव राअसालओ । ता संसइदम्हि मन्दभाआ । एसो दाणिं मम मन्दभाइणीए ऊसरक्खेत्तपडिदो विअ बीअमुट्टी णिप्फलो इध आगमणो संवुत्तो । ता किं एत्थ करइस्सम् । (क)
शकारः-कादले क्खु एशे बुडूचेडे पवहणं णावलोएदि । भावे, आलोएहि पवहणम् । (ख) विटः–को दोषः । भवतु । एवं तावत् ।
शकारः-कधम् , शिआला उड्डेन्ति, वाअशा वच्चेन्ति । ता जाव भावे अक्खीहिं भक्खीअदि, दन्तेहिं पेक्खीअदि, ताव हग्गे पलाइश्शम् । (ग)
विट:-(वसन्तसेनां दृष्ट्वा । सविषादमात्मगतम् ।) कथमये, मृगी व्याघ्रमनुसरति । भोः, कष्टम् ।
(क) कथं मम नयनयोरायासकर एव राजश्यालः । तत्संशयितास्मि मन्दभाग्या । एतदिदानीं मम मन्दभागिन्या ऊषरक्षेत्रपतित इव बीजमुष्टिनिष्फलमिहागमनं संवृत्तम् । तत्किमत्र करिष्यामि ।
(ख) कातरः खल्वेष वृद्धचेटः प्रवहणं नावलोकयति । भाव, आलोकय प्रवहणम् ।
(ग) कथम्, शृगाला उड्डीयन्ते, वायसा व्रजन्ति । तद्यावद्दावोऽक्षिभ्यां भक्ष्यते, दन्तैः प्रेक्ष्यते, तावदहं पलायिष्ये । विपरीतोक्तिः शकारवाक्यत्वात् ॥ [अवनतेत्यादि । पुष्पितामा । प्रयाम इति लोटौ मस(१) । गौरवमात्मनि बहुमानः ॥ १५ ॥ वुडचेडे निन्दितश्रोतः । 'वृद्धश्वोनेषांह्म इत्यावाचकः । अकारणात्' इति पूर्वटीका(१) ॥ कथम् । शृगाला उड्डीयन्ते। वायसा धावन्ति । तद्यावद्भावोऽक्षिभ्यां भक्ष्यते दन्तैः प्रेक्ष(क्ष्य)ते । शकारवाक्यत्वाद्विपरीतोक्तिः । तावदहं पलाये । अन्यथा वापन्यातू (?) । लाघव.