________________
अष्टमोऽङ्कः ।
१९७
विट: - आरोहतु भवान् ।
शकारः - एशे शंपदं अहिलुहामि । पुत्तका थावलका चेडा,
पलिवत्तावेहि पवहणम् । (क)
चेट: - (परावर्त्य ) अहिलुहदु भट्टालके । (ख)
शकार : - ( अधिरुह्यावलोक्य च शङ्कां नाटयित्वा त्वरितमवतीर्य विटं कण्ठेऽवलम्ब्य ।) भावे भावे, मलेशि मलेशि । पवहणाधिलूढा लक्खशी चोले वा पडिवशदि । ता जइ लक्खशी, तदो उभे वि मूशे । अध चोले, तदो उभे वि खज्जे । (ग)
विट:- न भेतव्यम् । कुतोऽत्र वृषभयाने राक्षस्याः संचारः । मा नाम ते मध्याह्नर्कितापच्छिन्नदृष्टेः स्थावरकस्य सकञ्चुकां छायां दृष्ट्वा भ्रान्तिरुत्पन्ना |
शकारः - पुत्तका थावलका चेडा, जीवेशि । (घ)
चेट: - अध इं । (ङ)
शकारः – भावे, पवहणाधिलूढा इत्थि पडिवशदि । ता अवलोएहि । (च)
विटः कथं स्त्री ।
(क) एष सांप्रतमधिरोहामि । पुत्रक स्थावरक चेट, परिवर्तय प्रवहणम् । (ख) अधिरोहतु भट्टारकः ।
(ग) भाव भाव, मृतोऽसि मृतोऽसि । प्रवहणाधिरूढा राक्षसी चौरो वा प्रतिवसति । तद्यदि राक्षसी, तदोभावपि मुषितौ । अथ चौरः तदोभावपि खादितौ ।
(घ) पुत्रक स्थावरक चेट, जीवसि ।
(ङ) अथ किम् ।
भाव, प्रवहणाधिरूढा स्त्री प्रतिवसति । तदवलोकय ।
भट्टारक' इति भणितुम् ॥ प्रवहणे राक्षसी चौरो वा प्रतिवसति । मूशे खज्जे इति