________________
अष्टमोऽङ्कः ।
शकारः - ता पवेशेहि पवहणम् । (क) चेट: - कदलेण मग्गेण । (ख)
शकारः – एदेण ज्जेव पगालखण्डेण । (ग)
-
चेटः – भट्टके, गोणा मलेन्ति । पवहणे वि भजेदि । हग्गे वि चेडे मलामि । (घ)
शकारः – अले, लाअशालके हग्गे । गोणा मले, अवले की - णिश्शम् । पवहणे भग्गे, अवलं घडाइश्शम् । तुमं मले, अण्णे पवहवाहके हुविश्शदि । (ङ)
चेटः - शब्वं उववण्णं हुविश्शदि । हग्गे अत्तणकेलके ण हुविश्शम् | (च)
A
१९५
शकारः - अले, शव्वं पि णश्शदु | पगालखण्डेण पवेशेहि पवहणम् । (छ)
चेट: - विभज्ज ले पवहण, शमं शामिणा विभज्ज । अण्णे पवहणे भोदु । भट्टके गदुअ णिवेदेमि । (प्रविश्य ।) कथं ण भग्गे । भट्ट, एशे उवत्थिदे पवहणे । (ज)
(क) तत्प्रवेशय प्रवहणम् । (ख) कतरेण मार्गेण । (ग) एतेनैव प्राकारखण्डेन ।
(घ) भट्टारक, वृषभौ म्रियेते । प्रवहणमपि भज्यते । अहमपि चेटो म्रिये । (ङ) अरे, राजश्यालकोऽहम् । वृषभौ मृतौ, अपरौ क्रेष्यामि । प्रवहणं भग्नम्, अपरं कारयिष्यामि । त्वं मृतः अन्यः प्रवहणवाहको भविष्यति । (च) सर्वमुपपन्नं भविष्यति । अहमात्मीयो न भविष्यामि । (छ) अरे, सर्वमपि नश्यतु । प्राकारखण्डेन प्रवेशय प्रवहणम् ।
(ज) विभञ्ज रे प्रवहण, समं स्वामिना विभञ्ज । अन्यत्प्रवहणं भवतु । भट्टारकं गत्वा निवेदयामि । कथं न भग्नम् । भट्टारक, एतदुपस्थितं प्रवहणम् ।
लक्ष्यते ॥ पगालखण्डेण प्राकारखण्डपथेनैव प्रवेशय ॥ दैवगत्या तु न भग्नं प्रवह