________________
मृच्छकटिके
शकारः—(नेमिघोषमाकर्ण्य 1) भावे भावे, आगदे पवहणे । (क) विटः कथं जानासि ।
शकारः – किं ण पेक्खदि भावे । बुडशअले विअ घुलघुलाअमाणे लक्खीअदि । (ख)
१९४
विट: - ( दृष्ट्वा 1) साधु लक्षितम् । अयमागतः ।
शकारः — पुत्तका थावलका चेडा, आगदे शि । (ग)
चेट:- अध इं । (घ)
शकारः – पवहणे वि आगदे । (ङ)
चेट: - अध इं । (च)
शकारः - गोणा वि आगदे । (छ) चेट: - अध इं । (ज)
शकारः - तुमं पि आगदे । (झ)
चेट: —— (सहासम् ।) भट्टके, अहं पि आगदे । (ञ)
न्विदम् । किं नु खल्वार्यचारुदत्तेन वाहनपरिश्रमं परिहरतान्यो मनुष्योऽन्यत्प्रवहणं प्रेषितं भविष्यति । स्फुरति दक्षिणं लोचनम् । वेपते मे हृदयम् । शून्या दिशः । सर्वमेव विसंष्टुलं पश्यामि ।
(क) भाव भाव, आगतं प्रवहणम् ।
(ख) किं न पश्यति भावः । वृद्धशूकर इव घुरघुरायमाणं लक्ष्यते । (ग) पुत्रक स्थावरक चेट, आगतोऽसि ।
(घ) अथ किम् ।
(ङ) प्रवहणमप्यागतम् ।
(च) अथ किम् । (छ) गावागतौ ।
(ज) अथ किम् ।
(झ) त्वमप्यागतः ।
(ञ) भट्टारक, अहमप्यागतः ।
प्रेक्षते भावः । वृद्धसूकर इव । घुरघुरेत्यव्यक्तशब्दानुकरणम् । अव्यक्तं शब्दं कुर्वाणो