________________
१९०
मृच्छकटिके विट:-काणेलीमातः, पश्योद्यानस्य शोभाम् । अमी हि वृक्षाः फलपुष्पशोभिताः
कठोरनिष्पन्दलतोपवेष्टिताः। नृपाज्ञया रक्षिजनेन पालिता
नराः सदारा इव यान्ति निर्वृतिम् ॥ ७ ॥ शकारः-शुटु भावे भणादि । बहुकुशुमविचित्तिदा अ भूमी
कुशुमभलेण विणामिदा अ रुक्खा। दुमशिहललदाअलम्बमाणा
पणशफला विअ वाणला ललन्तिः ॥ ८ ॥ (क). विट:-काणेलीमातः, इदं शिलातलमध्यास्यताम् ।
शकारः-एशे म्हि आशिदे । (इति विटेन सहोपविशति ।) भावे, अन्ज वि तं वशन्तशेणिअं शुमलामि । दुजणवअणं विअ हडकादो ण ओशलदि। (ख)
विट:-(स्वगतम् ।) तथा निरस्तोऽपि स्मरति ताम् । अथवा । स्त्रीभिर्विमानितानां कापुरुषाणां विवर्धते मदनः । सत्पुरुषस्य स एव तु भवति मृदु व वा भवति ॥ ९॥ (क) सुष्ठु भावो भणति ।
बहुकुसुमविचित्रिता च भूमिः ___कुसुमभरेण विनामिताश्च वृक्षाः ।
द्रुमशिखरलतावलम्बमाना
* पनसफलानीव वानरा ललन्ति ॥ (ख) एषोऽस्म्यासितः । भाव, अद्यापि तां वसन्तसेनां स्मरामि । दुर्जनवचनमिव हृदयान्नापसरति । विपर्यस्तं लोकविरुद्धम् ॥ ६॥ अमी इति ॥ ७ ॥ बहुकुशुमेत्यादि । पुष्पिताग्रा च्छन्दः । रुक्खा वृक्षाः । ललन्ति विहरन्ति ॥ ८ ॥ स्त्रीभिरि