________________
अष्टमोऽङ्कः।
१८९
विटः-किं ब्रवीति ।
शकारः-मावि गच्छदु, मावि चिश्टदु ।मावि ऊशशदु, मावि णीशशदु । इध ज्जेव झत्ति पडिअ मलेदु । (क) भिक्षुः–णमो बुद्धश्श । शलणागदम्हि । (ख) विट:-गच्छतु। शकारः—णं शमएण । (ग) विट:-कीदृशः समयः ।
शकारः-तधा कद्दमं फेलदु, जधा पाणिअं पकाइलंण होदि। अधवा पाणिअं पुञ्जीकदुअ कद्दमे फेलदु । (घ) विटः-अहो मूर्खता।
विपर्यस्तमनश्चेष्टैः शिलाशकलवर्मभिः । मांसवृक्षैरियं मूखैर्भाराकान्ता वसुंधरा ॥ ६ ॥
(भिक्षुर्नाव्येनाक्रोशति ।) शकारः-किं भणादि । (ङ) विटः-स्तौति भवन्तम् । शकारः-थुणु थुणु । पुणो वि थुणु । (च)
(तथा कृला निष्क्रान्तो भिक्षुः ।) (क) मापि गच्छतु, मापि तिष्ठतु । माप्युच्छसितु, मापि निश्वसितु । इहैव झटिति पतित्वा म्रियताम् । (ख) नमो बुद्धाय । शरणागतोऽस्मि । (ग) ननु समयेन ।
(घ) तथा कर्दमं प्रक्षिपतु, यथा पानीयं पङ्काविलं न भवति । अथवा पानीयं पुञ्जीकृत्य कर्दमे क्षिपतु ।
(ङ) किं भणति ।
(च) स्तुनु स्तुनु । पुनरपि स्तुनु । . विटोऽयमर्थ (?) ॥ पकाइलं पङ्काविलम् । कलुषमिति यावत् ॥ विपर्यस्तमिति ।