________________
१८८
मृच्छकटिके
नाभ्यस्ता च कषायवस्त्ररचना दूरं निगूढान्तरं
वस्त्रान्तं च पटोच्छ्रयात्प्रशिथिलं स्कन्धे न संतिष्ठते ॥ ५ ॥ भिक्षुः-उवाशके, एव्वम् । अचिलपव्वजिदे हग्गे । (क)
शकारः-ता कीशं तुमं जातमेत्तक जेव ण पव्वजिदे । (ख) (इति ताडयति।)
भिक्षुः–णमो बुद्धश्श । (ग) विटः–किमनेन ताडितेन तपस्विना । मुच्यताम् । गच्छतु । शकारः-अले, चिट्ठ दाव, जाव शंपधामि । (घ) विट:-केन सार्धम् । शकारः--अत्तणो हडक्केण । (ङ) विट:- हन्त, न गतः।
शकारः-पुत्तका हडक्का, भश्टके पुत्तके, एशे शमणके अवि. णाम किं गच्छदु, किं चिश्टदु । (खगतम् ।) णावि गच्छदु, णावि चिश्टदु । (प्रकाशम् ।) भावे, शंपधालिदं मए हडक्केण शह । एशे मह · हडक्के भणादि । (च) ।
(क) उपासक, एवम् । अचिरप्रव्रजितोऽहम् । (ख) तत्किमर्थं त्वं जातमात्र एव न प्रव्रजितः । (ग) नमो बुद्धाय । (घ) अरे, तिष्ठ तावत् , यावत्संप्रधारयामि । (ङ) आत्मनो हृदयेन ।
(च) पुत्रक हृदय, भट्टारक पुत्रक, एष श्रमणकोऽपि नाम किं गच्छतु, किं तिष्ठतु । नापि गच्छतु, नापि तिष्ठतु । भाव, संप्रधारितं मया हृदयेन सह । एतन्मम हृदयं भणति । किण: संघर्षजो व्रणान्तरः । वस्त्रकषायीकरणं न शीलितम् । वस्त्रान्तः स्कन्धे न तिष्ठते । नपुंसकत्वं चिन्त्यम् (?) । निगूढमवकाशो यस्य तत् । संकोचितप्रदेश. मित्यर्थः । पटस्योच्छ्रयो विशालता । तस्माद्दुःखम् ॥ ५ ॥ जातमात्र एव न प्रव्रजितः ॥ तपखिना वराकेण ॥ हलक्केन हृदयेन । न गतस्तर्हि न गमिष्यतीत्यर्थः । पुत्रक हृदय अदस्त्वं (2) भट्टारकं दउतिटिति नम इति प्रस्तावात् (१) ।