SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽङ्कः। १८७ विट:-काणेलीमातः, ननु 'धन्यस्त्वम् , पुण्यस्त्वम्' इति भवन्तं स्तौति । शकारः-भावे, ता कीश एशे इध आगदे । (क) भिक्षुः-इदं चीवलं पक्खालिदुम् । (ख) शकारः-अले दुट्टशमणका, एशे मम बहिणीवदिणा शव्वुजाणाणं पबले पुप्फकलण्डुज्जाणे दिण्णे, जहिं दाव शुणहका शिआला पाणिअं पिअन्ति । हग्गे वि पबलपुलिशे मणुश्शके ण ण्हाआमि । तहिं तुमं पुक्खलिणीए पुलाणकुलुत्थजूशशवण्णाइं उश्शगन्धिआई चीवलाइ पक्खालेशि । ता तुमं एक्कपहालिअं कलेमि । (ग) विट:-काणेलीमातः, तथा तर्कयामि यथानेनाचिरप्रव्रजितेन भवितव्यम् । शकारः-कधं भावे जाणादि । (घ) विटः-किमत्र ज्ञेयम् । पश्य । अद्याप्यस्य तथैव केशविरहाद्गौरी ललाटच्छविः कालस्याल्पतया च चीवरकृतः स्कन्धे न जातः किणः । (क) भाव, तत्किमर्थमेष इहागतः । (ख) इदं चीवरं प्रक्षालयितुम् । (ग) अरे दुष्टश्रमणक, एतन्मम भगिनीपतिना सर्वोद्यानानां प्रवरं पुष्पकरण्डोद्यानं दत्तम्, यत्र तावच्छुनकाः शृगालाः पानीयं पिबन्ति । अहमपि प्रवरपुरुषो मनुष्यको न स्नामि । तत्र त्वं पुष्करिण्यां पुराणकुलिस्थयूषसवर्णान्युग्रगन्धीनि चीवराणि प्रक्षालयसि । तत्त्वामेकाहारिकं करोमि । (घ) कथं भावो जानाति । पिबन्ति । हगे वि अहमपि । त्वमपि पुराणकुलित्थयूषसवर्णान्युग्रगन्धीनि चीवराणि प्रक्षालयसि । एकप्रहारवन्तं करोमि । एकप्रहारेण मारणोक्तावयं प्रयोगः ॥ अद्यापीति । गौरी ललाटे शोभा भवति । विरतस्य तस्यात्मनि स्वरूपगतिः (2)।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy