________________
१८१
सप्तमोऽङ्कः। चारुदत्तःविधिनैवोपनीतस्त्वं चक्षुर्विषयमागतः । अपि प्राणानहं जह्यां न तु त्वां शरणागतम् ॥ ६॥
(आर्यको हर्षे नाटयति ।) । चारुदत्तः-वर्धमानक, चरणान्निगडमपनय ।
चेंट:-जं अजो आणवेदि । (तथा कृत्वा ।) अज, अवणीदाई णिगलाई । (क)
आर्यकः-स्नेहमयान्यन्यानि दृढतराणि दत्तानि । विदूषकः-संगच्छेहि णिअडाइं । एसो वि मुक्को । संपदं अम्हे वच्चिस्सामो । (ख)
चारुदत्तः–र्धिक्शान्तम् ।
आर्यकः-सखे चारुदत्त, अहमपि प्रणयेनेदं प्रवहणमारूढः । तत्क्षन्तव्यम् । चारुदत्तः-अलंकृतोऽस्मि स्वयंग्राहप्रणयेन भवता । आर्यकः-अभ्यनुज्ञातो भवता गन्तुमिच्छामि । चारुदत्तः-गम्यताम् ।
आर्यकः-भवतु अवतरामि । - चारुदत्तः-सखे, नावतरितव्यम् । प्रत्यग्रापनीतसंयमनस्य भवतोऽलघुसंवारा गतिः । सुलभपुरुषसंचारेऽस्मिन्प्रदेशे प्रवहणं विश्वासमुत्पादयति । तत्प्रवहणेनैव गम्यताम् ।
आर्यकः-यथाह भवान् । चारुदत्त:क्षेमेण व्रज बान्धवान् (क) यदार्य आज्ञापयति । आर्य, अपनीतानि निगडानि । (ख) संगच्छस्व निगडानि । एषोऽपि मुक्तः । सांप्रतं वयं व्रजिष्यामः । करीति ॥५॥ विधिनेति ॥ ६ ॥ अलधुर्मन्दः॥ क्षेमेणेत्यादौ चारुदत्तार्य
मृ० १६