________________
१८०
मृच्छकटिके चेट:-अजमित्तेअ, मा कुप्प । जाणत्थलके विशुमलिदे त्ति कदुअ गदागदि कलेन्ते चिलइदेम्हि । (क)
चारुदत्तः-वर्धमानक, परिवर्तय प्रवहणम् । सखे मैत्रेय, अवतारय वसन्तसेनाम् । • विदूषकः-किं णिअडेण वद्धा से गोड्डा, जेण सण ओदरेदि । (उत्थाय प्रवहणमुद्धाट्य ।) भो, ण वसन्तसेणा, वसन्तसेणो क्खु एसो । (ख)
चारुदत्तः-वयस्य, अलं परिहासेन । न कालमपेक्षते स्नेहः । अथ वा स्वयमेवावतारयामि । (इत्युत्तिष्ठति ।)
आर्यक:-(दृष्ट्वा ।) अये, अयमेव प्रवहणस्वामी । न केवलं श्रुतिरमणीयो दृष्टिरमणीयोऽपि । हन्त, रक्षितोऽस्मि । चारुदत्तः-(प्रवहणमधिरुय दृष्ट्वा च ।) अये, तोऽयम ।
करिकरसमबाहुः सिंहपीनोलतासः
पृथुतरसमवक्षास्ताम्रलोलायताक्षः । कथमिदमसमानं प्राप्त एवंविधो यो
वहति निगडमेकं पादलग्नं महात्मा ॥ ५ ॥ ततः को भवान् ।
आर्यकः-शरणागतो गोपालप्रकृतिरार्यकोऽस्मि । चारुदत्तः-किं घोषादानीय योऽसौ राज्ञा पालकेन बद्धः । आर्यक:-अथ किम् ।
IA
(क) आर्यमैत्रेय, मा कुप्य । यानास्तरणं विस्मृतमिति कृत्वा गतागति कुर्वश्चिरायितोऽस्मि ।
(ख) किं निगडेन बद्धावस्याः पादौ, येन स्वयं नावतरति । भोः, न वसन्तसेना, वसन्तसेनः खल्वेषः ।
चन्दनकेन रक्षितत्वात् ॥ ४ ॥ मा कुप्प मा क्रोधं कुरु ॥ गोड्डा पादौ ॥