________________
मृच्छकटिके
चन्दनक: — (सक्रोधम् 1) अहं चन्दणओ, चम्मारओ, ता पलोएहि पवहणम् । (क)
वीरकः - अरे पत्रहणवाहआ, पडिवत्तावेहि पवहणम् । पलोइस्सम् । (ख)
(चेटस्तथा करोति । वीरकः प्रवहणमारोदुमिच्छति । चन्दनकः सहसा केशेषु गृहीत्वा पातयति पादेन ताडयति च ।)
वीरकः - (सक्रोधमुत्थाय 1) अरे, अहं तुए वीसत्थो राआण्णत्तिं करेन्तो सहसा केसेसु गेव्हिअ पादेन ताडिदो । ता सुणु रे, अहिअरणमज्झे जइ दे च उरङ्कं ण कप्पावेमि, तदो ण होमि वीरओ । (ग) चन्दनकः – अरे, राअउलं अहिअरणं वा वच्च । किं तुए सुणअसरिसेण । (घ)
-
१७६
वीरकः - तथा । ( इति निष्क्रान्तः ।)
चन्दनकः- - (दिशोऽवलोक्य । गच्छ रे पवहणवाहआ, गच्छ । जइ को वि पुच्छेदि तदो भणेसि - ' चन्दणअवीरएहिं अवलोइं पवहणं वच्चइ' । अज्जे वसन्तसेणे, इमं च अहिण्णाणं दे देमि । (ङ) (इति खङ्गं प्रयच्छति ।)
आर्यकः – (खङ्गं गृहीत्वा सहर्षमात्मगतम् ।)
अये शस्त्रं मया प्राप्तं स्पन्दते दक्षिणो भुजः । अनुकूलं च सकलं हन्त संरक्षितो ह्यहम् ॥ २४ ॥
(क) अहं चन्दनकश्चर्मकारः, तत्प्रलोकय प्रवहणम् । (ख) अरे प्रवहणवाहक, परिवर्तय प्रवहणम् । प्रलोकयिष्यामि ।
(ग) अरे, अहं त्वया विश्वस्तो राजाज्ञप्तिं कुर्वन्सहसा केशेषु गृहीत्वा पादेन ताडितः । तच्छृणु रे, अधिकरणमध्ये यदि ते चतुरङ्गं न कल्पयामि, तदा न भवामि वीरकः ।
-
(घ) अरे, राजकुलमधिकरणं वा व्रज । किं त्वया शुनकसदृशेन । (ङ) गच्छ रे प्रवहणवाहक, गच्छ । यदि कोऽपि पृच्छति तदा भण‘चन्दनकवीरकाभ्यामवलोकितं प्रवहणं व्रजति' । आर्ये वसन्तसेने, इदं चाभिज्ञानं ते ददामि ।
दुर्मुख करटक भ्राता त्वमपि सेनापतिर्जातः ॥ करटको वाद्यविशेषः ॥ २३॥ अये