SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः। . १७७ चन्दनक:-अजए, एत्थ मए विण्णविदा पच्चइदा चन्दणं पि सुमरेसि । ण भणामि एस लुद्धो णेहस्स रसेण बोल्लामो ॥ २५ ॥ (क) आर्यक: चन्दनश्चन्द्रशीलाढ्यो दैवादद्य सुहृन्मम । चन्दनं भोः मरिष्यामि सिद्धादेशस्तथा यदि ॥ २६ ॥ - चन्दनक:अभअं तुह देउ हरो विण्डू बम्हा रवी अ चन्दो अ । हत्तूण सत्तुवक्खं सुम्भणिसुम्भे जधा देवी ॥ २७ ॥ (ख) (चेटः प्रवहणेन निष्क्रान्तः ।) चन्दनकः-(नेपथ्याभिमुखमवलोक्य ।) अरे, णिक्कमन्तस्स मे पिअवअस्सो सब्विलओ पिट्ठदो जेव अणुलग्गो गदो । भोदु । पधाणदण्डधारओ वीरओ राअपच्चअआरो विरोहिदो । ता जाव अहंपि पुत्तभादुपडिवुदो एवं जेव अणुगच्छामि (ग) (इति निष्क्रान्तः ।) इति प्रवहणविपर्ययो नाम षष्ठोऽङ्कः। (क) आर्य, अत्र मया विज्ञप्ता प्रत्ययिता चन्दनमपि स्मरसि । न भणाम्येष लुब्धः स्नेहस्य रसेन ब्रूमः ॥ (ख) अभयं तव ददातु हरो विष्णुर्ब्रह्मा रविश्च चन्द्रश्च । हत्वा शत्रुपक्षं शुम्भनिशुम्भौ यथा देवी ॥ (ग) अरे, निष्क्रमतो मम प्रियवयस्यः शर्विलकः पृष्ठत एवानुलग्नो गतः । भवतु । प्रधानदण्डधारको वीरको राजप्रत्ययकारो विरोधितः । तद्यावदहमपि पुत्रभ्रातृपरिवृत एतमेवानुगच्छामि । इति ॥२४॥ एत्थ इत्यादि । गाथा । अत्र मया विज्ञप्ता परिज्ञापिता चन्दनकं च स्मरिष्यसि । न भणाम्येष लुब्धः स्नेहस्य वशेन ब्रूमः ॥२५॥ चन्दन इति । तथा यदीत्यादि । राज्यप्राप्तिरूपः ॥ २६ ॥ अभअमित्यादि । आर्या । अभयं तव ददातु हरो विष्णुर्ब्रह्मा रविश्च चन्द्रश्च । हत्वा शत्रुपक्षं शुम्भनिशुम्भौ यथा देवी ॥ २७ ॥ विरोहिदो विरोधितः । पुत्रभ्रातृप्रभृतिः सहितः । तमार्यकमेव ॥ इति प्रवहणविपर्यासो नाम षष्ठोऽङ्कः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy