________________
षष्ठोऽङ्कः ।
१७१ वीरकः-तुमं पि रण्णो पच्चइदो बलवई । ता तुमं जेव अवलोएहि । (क)
चन्दनकः-मए अवलोइदं तुए अवलोइदं भोदि । (ख) वीरकः-जंतुए अवलोइदं तं रण्णा पालएण अवलोइदम् । (ग) चन्दनकः-अरे, उण्णामेहि धुरम् । (घ)
(चेटस्तथा करोति ।) आर्यकः—(स्वगतम् ।) अपि रक्षिणो मामवलोकयन्ति । अशस्त्रश्चास्मि मन्दभाग्यः । अथवा ।
भीमस्यानुकरिष्यामि बाहुः शस्त्रं भविष्यति ।
वरं व्यायच्छतो मृत्युनं गृहीतस्य बन्धने ॥ १७ ॥ अथवा साहसस्य तावदनवसरः ।
(चन्दनको नाट्येन प्रवहणमारुह्याक्लोकयति ।) आर्यक:-शरणागतोऽस्मि । चन्दनकः-(संस्कृतमाश्रित्य ।) अभयं शरणागतस्य ।
आर्यक:
त्यजति किल तं जयश्रीहति च मित्राणि बन्धुवर्गश्च । भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥ १८ ॥
चन्दनकः-कधं अजओ गोवालदारओ सेणवित्तासिदो विअ पत्तरहो साउणिअस्स हत्थे णिवडिदो । (विचिन्त्य ।) एसो अणवराधो सरणाअदो अजचारुदत्तस्स पवहणं आरूढो, पाणप्पदस्स मे अजसव्विलअस्स मित्तम् । अण्णदो राअणिओओ । ता किं दाणिं (क) त्वमपि राज्ञः प्रत्ययितो बलपतिः । तस्मात्त्वमेवावलोकय । (ख) मयावलोकितं त्वयावलोकितं भवति । (ग) यत्त्वयावलोकितं तद्राज्ञा पालकेनावलोकितम् । (घ) अरे, उन्नामय धुरम् । तन्तिलश्चिन्तापरः ॥ राज्ञा पालकनाम्ना ॥ भीमस्येति । व्यायच्छतः परपरिभवं कुर्वतः ॥ १७ ॥ त्यजतीति ॥ १८ ॥ पत्तरहो पत्ररथः पक्षी । शाकुनिकस्य पक्षिणां हन्तुः । त्वथनिमित्तजस्य चन्दनकस्य सापराधस्य चारभत्तेन