________________
१७०
मृच्छकटिके
दो जेव पूअणीआ इह णअरीए तिलअभूदा अ । अजा वसन्तसेणा धम्मणिही चारुदत्तो अ ॥ १४ ॥ (क) वीरक:-अरे चन्दणआ, जाणामि चारुदत्तं वसन्तसेणं अ सुट्ट जाणामि । पत्ते अ राअकजे पिदरं पि अहं ण जाणामि ॥ १५ ॥ (ख)
आर्यकः—(खगतम् ।) अयं मे पूर्ववैरी । अयं मे पूर्वबन्धुः । यतः । ___ एककार्यनियोगेऽपि नानयोस्तुल्यशीलता।
विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥ १६ ॥ चन्दनकः-तुमं तन्तिलो सेणावई रण्णो पच्चइदो । एदे धारिदा मए बइल्ला । अवलोएहि । (ग)
(क) अरे, आर्यचारुदत्तं न जानासि, न वा वसन्तसेनाम् । यद्यार्यचारुदत्तं वसन्तसेनां वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि त्वं न जानासि ।
कस्तं गुणारविन्दं शीलमृगात जनो न जानाति । आपन्नदुःखमोक्षं चतुःसागरसारं रत्नम् ॥ द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च ।
आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ (ख) अरे चन्दनक,
जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि ।
प्राप्ते च राजकार्ये पितरमप्यहं न जानामि ॥ (ग) त्वं तन्त्रिलः सेनापती राज्ञः प्रत्ययितः । एतौ धारितौ मया बलीवौं । अवलोकय । चतुःसागरसारकं रत्नम् ॥ १३ ॥ द्वावेव पूजनीयाविह नगया तिलकभूतौ च । आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ १४ ॥ जानामीति । गाथा । जानामि चारुदत्तं वसन्तसेनां च सुष्टु जानामि । प्राप्ते च राजकार्ये पितर. मप्यहं न जानामि । प्राप्ते चेति चकारः पुनरर्थे ॥ १५॥ एकेति ॥१६॥