________________
१६२
मृच्छ
चेटी - अज्जए, मिसद्दो विअ सुणीअदि । ता आअदो पव
हणो । (क)
वसन्तसेना – हजे, गच्छ । तुवरदि मे हिअअम् । ता आदेसेहि पक्खदुआरअम् । (ख)
चेटी - एदु एदु अज्जआ । (ग)
वसन्तसेना — (परिक्रम्य ।) हजे, वीसम तुमम् । (घ)
-
चेटी - जं अज्जआ आणवेदि । (ङ) (इति निष्क्रान्ता ।) वसन्तसेना - (दक्षिणाक्षिस्पन्दं सूचयित्वा प्रवहण मधिरुह्य च ।) किं दं फुरदि दाहिणं लोअणम् । अधवा चारुदत्तस्स ज्जेव दंसणं अणिमित्तं पमज्जइस्सदि । (च)
वहतं बलीवर्दाः, वहतम् । कथं ग्रामशकटै रुद्धो मार्गः । किमिदानीमत्र करिष्यामि । अरे रे, अपसरत अपसरत । किं भणथ - ' एतत्कस्य प्रवहणम्' इति । एतद्राजश्यालकसंस्थानस्य प्रवहणमिति । तच्छीघ्रमपसरत । कथम्, एषोऽपरः सभिकमिव मां प्रेक्ष्य सहसैव द्यूतपलायित इव द्यूतकरोऽपवार्यात्मानमन्यतोऽपक्रान्तः । तत्कः पुनरेषः । अथवा किं ममैते । त्वरितं गमिष्यामि । अरे रे ग्राम्याः, अपसरत अपसरत । किं भणथ - ' मुहूर्तकं तिष्ठ । चक्रपरिवृत्तिं देहि' इति । अरे रे, राजश्यालकसंस्थानस्याहं शूरश्चक्रपरिवृत्तिं दास्यामि । अथवा एष एकाकी तपस्वी । तदेवं करोमि । एतत्प्रवहणमार्यचारुदत्तस्य वृक्षवाटिकायाः पक्षद्वारके स्थापयामि । एषोऽस्म्यागतः ।
1
1
(क) आर्ये, नेमिशब्द इव श्रूयते । तदागतं प्रवहणम् ।
(ख) चेटि, गच्छ । त्वरयति मे हृदयम् । तदादिश पक्षद्वारम् ।
(ग) एवेत्वार्या ।
(घ) चेटि, विश्राम्य त्वम् ।
(ङ) यदार्याज्ञापयति ।
(च) किं न्विदं स्फुरति दक्षिणं लोचनम् । अथवा चारुदत्तस्यैव दर्शनमनिमित्तं प्रमार्जयिष्यति ।
इति चक्रपरिवृत्तिदानार्थम् । एतेन शकारस्य काकनेत्रमुक्तम् (?) । अतोऽपि च
1