________________
१६०
मृच्छकटिके कील । (अलंकारैर्मृच्छकटिक पूरयित्वा ।) जाद, कारेहि सोवण्णसअडिअम् । (क)
(इति दारकमादाय निष्कान्ता रदनिका ।)
(प्रविश्य प्रवहणाधिरूढः) चेट:-लदणिए, लदणिए, णिवेदेहि अजआए वशन्तशेणाए- 'ओहालिअं पक्खदुआलए शजं पवहणं चिट्ठदि' । (ख)
(प्रविश्य) रदनिका-अजए, एसो वड्डमाणओ विण्णवेदि-'पक्खदुआरए सजं पवहणं' त्ति । (ग)
वसन्तसेना-हल्ले, चिट्ठदु मुहुत्तअम् । जाव अहं अत्ताणभं पसाधेमि । (घ)
रदनिका-(निष्क्रम्य ।) वडमाणआ, चिट्ठ मुहुत्तअम् । जाव . अजआ अत्ताण पसाधेदि । (ङ)
चेटः–ही ही भो, मए वि जाणत्थलके विशुमलिदे । ता जाव गेण्हिअ आअच्छामि । एदे णश्शालज्जुकडुआ बइल्ला । भोदु। पवहणेण जेव गदागदि कलिश्शम् । (च) (इति निष्क्रान्तश्चेटः ।)
(क) जात, न रोदिष्यामि । गच्छ । क्रीड । जात, कारय सौवर्णशकटिकाम् ।
(ख) रदनिके, रदनिके, निवेदयार्यायै वसन्तसेनायै-'अपवारितं पक्षद्वारके सजं प्रवहणं तिष्ठति' ।
(ग) आर्ये, एष वर्धमानको विज्ञापयति- 'पक्षद्वारे सज्जं प्रवहणम्' इति ।
(घ) चेटि, तिष्ठतु मुहूर्तकम् । यावदहमात्मानं प्रसाधयामि । (ङ) वर्धमानक, तिष्ठ मुहूर्तकम् । यावदार्यात्मानं प्रसाधयति ।
(च) ही ही भोः, मयापि यानास्तरणं विस्मृतम् । तद्यावद्गृहीत्वागच्छामि । एते नासिकारज्जुकटुका बलीवर्दाः । भवतु । प्रवहणेनैव गतागति करिष्यामि । निष्क्रान्ता ॥ उद्घाटितं पक्षद्वारकम् (2) ॥ ही ही इत्यकस्मात्स्मरणविषयेण । जा- .