________________
षष्ठोऽङ्कः।
१५९ लसि तुमं पुरिसभाअधेएहिं । (इति सास्रा ।) जाद, मा रोद । सोवण्णसअडिआए कीलिस्ससि । (क)
दारकः-रदणिए, का एसा । (ख) वसन्तसेना-पिदुणो दे गुणणिजिदा दासी । (ग) रदनिका-जाद, अज्जआ दे जणणी भोदि । (घ)
दारकः–रदणिए, अलिअं तुम भणासि । जइ अम्हाणं अजआ जणणी ता कीस अलंकिदा । (ङ)
वसन्तसेना-जाद, मुद्धेण मुहेण अदिकरुणं मन्तेसि । (नाट्येनाभरणान्यवतार्य रुदती ।) एसा दाणिं दे जणणी संवुत्ता । ता गेण्ह एवं अलंकारअम् । सोवण्णसअडिअं घडावेहि । (च)
दारकः-अवेहि । ण गेण्हिस्सम् । रोदसि तुमम् । (छ) वसन्तसेना-(अश्रूणि प्रमृज्य ।) जाद, ण रोदिस्सम् । गच्छ ।
(क) हा धिक् हा धिक् । अयमपि नाम परसंपत्त्या संतप्यते । भगवकृतान्त, पुष्करपत्रपतितजलबिन्दुसदृशैः क्रीडसि त्वं पुरुषभागधेयैः । जात मा रुदिहि । सौवर्णशकटिकया क्रीडिष्यसि ।
(ख) रदनिके, कैषा। (ग) पितुस्ते गुणनिर्जिता दासी । (घ) जात, आर्या ते जननी भवति । (ङ) रदनिके, अलीकं त्वं भणसि । यद्यस्माकमार्या जननी, तत्किमर्थमलंकृता।
(च) जात, मुग्धेन मुखेनातिकरुणं मन्त्रयसि । एषेदानी ते जननी संवृत्ता । तद्गृहाणैतमलंकारम् । सौवर्णशकटिकां कारय । (छ) अपेहि । न ग्रहीष्यामि । रोदिषि त्वम् ।
वेशिगृहपतिदारकेण ॥ तव पितुर्गुणनिर्जिता दासी ॥ अलिअं अलीकम् । असत्यमिति यावत् ॥ बालहस्ताभ्यां सुवर्णपूर्णी शकटिकां दारकं च स्वयं गृहीत्वा