________________
मृच्छकटिके
अणलंकिदुसरीरो वि चन्दमुह आणन्देदि मम हिअअम् । (क) रदनिका – एसो क्खु अज्जचारुदत्तस्स पुत्तो रोहसेणो णाम । (ख)
---
वसन्तसेना – (बाहू प्रसार्य 1) एहि मे पुत्तअ, आलिङ्ग । (इत्यङ्क उपवेश्य ।) अणुकिदं अणेण पिदुणो रुवम् । (ग)
रदनिका - ण केवलं रूवम्, सीलं पि तक्केमि । एदिणा अजचारुदत्तो अत्ताणअं विणोदेदि । (घ)
वसन्तसेना —— अध किंणिमित्तं एसो रोअदि । (ङ)
१५८
रदनिका — एदिणा पडिवेसि अगहवइदारअकेरिआए सुवण्णसअडिआए कीलिदम् । तेण अ साणीदा । तदो उण तं मग्गन्तस्स मए इअं मट्टिआसअडिआ कदुअ दिण्णा । तदो भणादि- 'रदणिए, किं मम एदाए मट्टिआसअडिआए । तं जेव सोवण्णसअडि देहि' ति । (च)
1
वसन्तसेना - हद्धी हद्धी । अअं पि णाम परसंपत्तीए संतपदि । भअवं कअन्त, पोक्खरवत्तपडिदजलबिन्दुसरिसेहिं की -
(क) रदनिके, स्वागतं ते । कस्य पुनरयं दारकः । अनलंकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हृदयम् ।
(ख) एष खल्वार्यचारुदत्तस्य पुत्रो रोहसेनो नाम |
(ग) एहि मे पुत्रक, आलिङ्ग । अनुकृतमनेन पितू रूपम् ।
(घ) न केवलं रूपम्, शीलमपि तर्कयामि । एतेनार्यचारुदत्त आत्मानं विनोदयति ।
(ङ) अथ किंनिमित्तमेष रोदिति ।
(च) एतेन प्रतिवेशिक गृहपतिदारकस्य सुवर्णशकटिकया क्रीडितम् । तेन च सा नीता । ततः पुनस्तां याचतो मयेयं मृत्तिकाशकटिका कृत्वा दत्ता । ततो भणति – ' रदनिके, किं ममैतया मृत्तिकाशकटिकया । तामेव सौवर्णशकटिकां देहि' इति ।
कटेन प्रतिवेशिकगृहपतिदारकसंबन्धिन्या सुवर्णशकटिकया क्रीडितम् । तेन प्रति