________________
षष्ठोऽङ्कः।
१५७ चेटी-अज्जए, कुपिस्सदि चारुदत्तो अजाए दाव । (क) वसन्तसेना-गच्छ । ण कुपिस्सदि । (ख)
चेटी—(गृहीत्वा ।) जं आणवेदि । (इति निष्क्रम्य पुनः प्रविशति ।) अजए, भणादि अजा धूदा-'अजउत्तेण तुम्हाणं पसादीकिदा । ण जुत्तं मम एवं गेण्हिदुम् । अजउत्तो जेव मम आहरणवि. सेसो त्ति जाणादु भोदी' । (ग)
(ततः प्रविशति दारकं गृहीत्वा रदनिका ।) रदनिका-एहिं वच्छ, सअडिआए कीलम्ह । (घ)
दारकः-(सकरुणम् ।) रदणिए, किं मम एदाए मट्टिआसअडिआए । तं जेव सोवण्णसअडिअं देहि । (ङ)
रदनिका-(सनिर्वेदं निश्वस्य ।) जाद, कुदो अम्हाणं सुवण्णववहारो । तादस्स पुणो वि रिद्धीए सुवण्णसअडिआए कीलिस्ससि। ता जाव विणोदेमि णम् । अजआवसन्तसेणाआए समीवं उवसप्पिस्सम् । (उपसृत्य ।) अजए, पणमामि । (च)
वसन्तसेना-रदणिए, साभदं दे । कस्स उण अअंदारओ।
(क) आर्ये, कुपिष्यति चारुदत्त आर्यायै तावत् । (ख) गच्छ । न कुपिण्यति ।
(ग) यदाज्ञापयति । आर्ये, भणत्यार्या धूता-'आर्यपुत्रेण युष्माकं प्रसादीकृता । न युक्तं ममैतां ग्रहीतुम् । आर्यपुत्र एव ममाभरणविशेष इति जानातु भवती। (घ) एहि वत्स, शकटिकया क्रीडयावः ।
(ङ) रदनिके, किं ममैतया मृत्तिकाशकटिकया । तामेव सौवर्णशकटिकां देहि ।
(च) जात, कुतोऽस्माकं सुवर्णव्यवहारः । तातस्य पुनरपि ऋद्धया सुवर्णशकटिकया क्रीडिष्यसि । तद्यावद्विनोदयाम्येनम् । आर्यावसन्तसेनायाः समीपमुपसर्पिष्यामि । आर्ये, प्रणमामि ।
मृ० १४