________________
१५४
मृच्छकटिके
एषा च स्फुटितसुधाद्रवानुलेपा
त्सक्लिन्ना सलिलभरेण चित्रभित्तिः ॥ ५० ॥ (ऊर्ध्वमवलोक्य ।) अये इन्द्रधनुः । प्रिये, पश्य पश्य । .
विद्युजिह्वेनेदं महेन्द्रचापोच्छ्रितायतभुजेन । .
जलधरविवृद्धहनुना विजृम्भितमिवान्तरीक्षेण ॥ ५१ ॥ तदेहि । अभ्यन्तरमेव प्रविशावः । (इत्युत्थाय परिकामति ।)
तालीषु तारं विटपेषु मन्द्रं
शिलासु रुक्षं सलिलेषु चण्डम् । संगीतवीणा इव ताड्यमानास्तालानुसारेण पतन्ति धाराः ॥ ५२ ॥
(इति निष्कान्ताः सर्वे ।) दुर्दिनो नाम पञ्चमोऽङ्कः।
न्द्रातपः ॥ ५० ॥ विद्युदिति । आर्या । अनया च वेतालादिभयानकरूपवर्णनम् ॥ ५१ ॥ तालीविति । संगीतवीणा इव धाराः ॥ ५२ ॥
इति दुर्दिनो नाम पञ्चमोऽङ्कः ॥