________________
पञ्चमोऽङ्कः।
... १५३
एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता रक्ता कान्तमिवाम्बरं प्रियतमा विद्युत्समालिङ्गति ॥ ४६॥
(वसन्तसेना शृङ्गारभावं नाटयन्ती चारुदत्तमालिङ्गति ।) चारुदत्तः-(स्पर्श नाटयन्प्रत्यालिङ्गय ।)
भो मेघ गम्भीरतरं नद त्वं
तव प्रसादात्स्मरपीडितं मे। संस्पर्शरोमाञ्चितजातरागं
कदम्बपुष्पत्वमुपैति गात्रम् ॥ ४७ ॥ विदूषकः-दासीए पुत्त दुद्दिण, अणज्जो दाणिं सि तुमम् , जं अत्तभोदिं विज्जुआए भायावेसि । (क) चारुदत्तः—वयस्य, नार्हस्युपालब्धुम् । वर्षशतमस्तु दुर्दिनमविरतधारं शतहदा स्फुरतु । .
अस्मद्विधदुर्लभया यदहं प्रियया परिष्वक्तः ॥ ४८ ।। अपि च । वयस्य,
धन्यानि तेषां खलु जीवितानि
ये कामिनीनां गृहमागतानाम् । आद्रोणि मेघोदकशीतलानि
गात्राणि गात्रेषु परिष्वजन्ति ॥ ४९ ॥ प्रिये वसन्तसेने,
स्तम्भेषु प्रचलितवेदिसंचयान्तं
शीर्णत्वात्कथमपि धार्यते वितानम् । (क) दास्याः पुत्र दुर्दिन, अनार्य इदानीमसि त्वम्, यदभवतीं विधुता भीषयसि। रिति ॥ ४५ ॥ एतैरिति । वर्णकं विलेपनम् ॥ ४६ ॥ भो मेघेति ॥ ४७ ॥ वर्षशतमिति । अस्मद्विधदुर्लभया । दरिद्रस्य वेशावाप्तिसंभवात् ॥ ४८ ॥ धन्यानीति ॥ ४९ ॥ स्तम्भेष्वित्यादि । प्रकृतिच्छन्दसा । वितानं