________________
१५२
मृच्छकटिके चारुदत्तः—(सविलक्षस्मितम् ।) वसन्तसेने, पश्य पश्य ।
कः श्रद्धास्यलि भूतार्थं सर्वो मां तूलयिष्यति ।
शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ ४३ ॥ विदूषकः-हले, किं भोदीए इध जेव सुविदव्वम् । (क)
चेटी-(विहस्य ।) अज्ज मित्तेअ, अदिमेत्तं दाणिं उजुअं अत्ताणों दंसेसि । (ख)
विदूषकः-भो वअस्स, एसो क्खु ओसारअन्तो विअ सुहोवविट्ट जणं पुणोवि वित्थारिवारिधाराहिं पविट्टो पजण्णो । (ग) चारुदत्तः-सम्यगाह भवान् ।
अमूर्हि भित्त्वा जलदान्तराणि
पान्तराणीव मृणालसूच्यः । पतन्ति चन्द्रव्यसनाद्विमुक्ता
दिवोऽश्रुधारा इव वारिधाराः ॥ ४४ ॥ अपि च ।
धाराभिरार्यजनचित्तसुनिर्मलाभि
श्वण्डाभिरर्जुनशरप्रतिकर्कशाभिः । मेघाः स्रवन्ति बलदेवपटप्रकाशाः
शक्रस्य मौक्तिकनिधानमिवोद्विरन्तः ॥ ४५ ॥ प्रिये, पश्य पश्य ।
एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैः __ संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः । (क) चेटि, किं भवत्या इहैव सुप्तव्यम् । (ख) आर्य मैत्रेय, अतिमात्रमिदानीमृजुमात्मानं दर्शयसि । (ग) भो वयस्य, एष खल्वपसारयन्निव सुखोपविष्टं जनं पुनरपि विस्तारिवारिधाराभिः प्रविष्टः पर्जन्यः। भाण्डस्य कृते योगात् ॥ क इति ॥ ४३ ॥ अमूरिति ॥ ४४ ॥ धाराभिः